________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सः स्योपनदुर्गपदव्याख्यालङ्कतम् । [३९
तन्मत्वा भूभुजोऽन्येऽपि, वेपिनस्तं प्रपेदिरे । ददिरे दूरदेशस्था दण्डं तस्मै सविस्मयाः॥ ३८ ॥ दु० व्या०-वेपिन:-कम्पमानः ॥ ३८ ॥ अन्यदाराऽजिते तस्मिन्नन्यदा राजिते जनैः। सभासीने नरः कोऽपि, लेखपाणिरुपागमत् ॥ ३९ ॥ दु० व्या०-अन्यदारैरजितः ॥ ३९ ॥ लेखं मुक्त्वा पदोपान्ते, नमत्यस्मिन् महीपतिः । दृष्टे नाम्नि पितुः प्राप्तहल्लेखस्तमवाचयत् ॥ ४० ॥ "स्वस्ति श्रीमङ्गलपुराज्जयचन्द्रनरेश्वरः । हस्तिनागपुरे पुत्रं, विजयं विजयोर्जितम् ॥ ४१॥ सस्नेहं साजसं गाढमालिङ्गयादिशति स्वयम् । शुभमत्रास्ति तत्रत्यं, विज्ञप्यं कार्यमुच्यते ।। ४२ ॥
युग्मम् ॥ वत्स! वत्सलतया तव सर्वत्रापि राज्यकमलाऽनुचरीयम् । त्वद्वियोगविधुराः पुनरेते, निवृता न भवने न वने वा ॥ ४३॥ जननी तव वत्स! नेत्रतो, जलधारा क्षरति क्षणे क्षणे । उपशान्तिमुपैति नो पुनस्त्वद्विरहो वडवानलो नवः" ॥४४॥
अथोत्कः पितरौ नन्तुं, मत्वेति विरहातुरौ। ससैन्यसचिवे राज्यशिक्षां दत्त्वाऽचलन्नृपः ॥ ४५ ॥ अविच्छिन्नप्रयाणोऽथ, स मङ्गलपुरं ययौ । नृपति वर्धयामासुः, जयचन्द्रं च केचन ।। ४६ ॥ . १R B आदर्शयोः 'युग्मम्' इति पदं न लिखितम् ।
For Private And Personal Use Only