________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । [११३
स्ववृत्तं ज्ञापयित्वाऽहं, ततो मातृसुते उमे । सुखेन चालयन्मार्गे, नाभूवं मातृशासितः ।। १६६ ।। दु० व्या-मातृशासितः-मूर्खः ॥ १६६ ।। कोमलक्रमणे ते द्वे, वृषिते च बुभुक्षिते । सुश्रूषयन् वने प्राप, कथञ्चित् तापसाश्रमम् ॥ १६७ ॥ गागलिस्तापसाधीशो, मवृत्ते च गतेऽवदत् । मुश्च भद्रस्त्रियावत्र, पालयिष्यामि वत्सल ! ॥ १६८ ॥ उटजे स्थापयित्वा ते, गृहीत्वाऽहं तदाशिषम् । भ्रमन् वनेषु दिङ्मूढो, देवादेव समागमम् ।। १६९ ॥ अभाषत महीशस्तं, शस्तं यत् तव सङ्गमः। गमिष्यति च सा कान्ता, कान्तास्या वासरान् कथम् ॥१७॥ दु० व्या०-महीश:, तम् ।। १७० ॥ कथं मयि श्लथस्नेहा, न दत्से देवि ! दर्शनम् । विलपन्तमिति स्पष्टं, स्थगीभृद् भूपति जगौ ।। १७१ ॥ धीरस्त्वमेधि मेधाविन् !, सति तत्रापि सा सती। सुवर्णे श्यामिका न स्यात् , माणिक्ये न मलः पुनः ॥१७२।। दु० व्या०-एधि-भव ॥ १७२ ॥ स्थगीधरधराधीशाविति तत्र स्थितौ क्षणात् । अद्राष्टां नभसा यान्तं, पत्रिणं पत्रिकामुखम् ।। १७३ ॥ कोऽयं केयं प्रभो ! पत्री, जल्पत्येवं स्थगीधरे । विहङ्गस्तरुमाश्रित्य, राज्ञोऽङ्के भूर्जिका जहौ ॥ १७४ ।। दु० व्या०-कोऽयं पत्री-पक्षी, केयं पत्री ! ॥ १७४ ।
For Private And Personal Use Only