________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र चरित्रं ॥१७॥
श्रेणिक
श्रीप्रसनचंद्र
| पृथ्वी,यायाद् दध्यौ ततो नृपः। अत्युत्कृष्टतपस्कस्याप्यस्य केयं गतिर्मुनेः॥३०७॥ क्षणं स्थित्वा पुनः पृष्टे,नृपेण प्रभुरभ्यघात् । याति | सर्वार्थसिद्धिं स, विपद्येताधुना यदि ॥३०८॥ विसितो नृपतिर्नत्वा, पुनः पप्रच्छ सादरम् । स्वामिन् ! आख्याहि को हेतुः,यदियं व्याकृतिर्द्विधा ?||३०१॥ स्वाम्याख्यत्तव सैन्यस्याग्रस्थौ मुमुखदुर्मुखौ । मत्यौं तमृषिमैक्षेतां, तत्रेदं सुमुखोऽभ्यधात् ॥३१०॥ क्रमेणै
केन कस्तिष्ठेत् १, कश्चैवेतार्कमंडलम् । क्षणार्हमपि तेनायमहो दुष्करकारकः ॥३११॥ दुर्मुखोऽथ स्वभावेन, दुर्मुखः सुमुखं जगौ। | राजा प्रसन्नचंद्रोऽयमद्रष्टव्यमुखः खलु ॥३१२।। प्रविजिषुणा येन, स्वराज्ये योजितः शिशुः। महनसि नृशंसेन, न्यासितस्तर्णको | यथा ॥३१३।। स्वराज्याच्च्यावितोऽमात्यैः, वातैरिव नगाच्छदम् । विदध्वंसेऽवरोधश्च, शून्यं दुग्धमिवौतुमिः।।३१४॥ इत्याकर्ण्य स राजर्षिः, स्वपुत्रस्य पराभवम् । देष्मीयमानः क्रोधेन, दध्यौ मोहबलार्दितः ॥३१५॥ धीसखानधमान घिग धिक्, कृतमान सुदुराशयान् । पराषभूवे यैर्बालो, दुर्बलो बालिशैर्मम।।३१।। ध्यायन्नेवं भृशं साक्षादिव वीक्षांबभूव तान् । मनसैव हि संनद्य, युयुधे संयतीव तैः॥३१७। हन्यमाने त्वमानौघे, कुंताकुंति शराशरि । त्वमागास्तत्र ते नंतु,स्तुत्वाऽगात् पुरतः परम्।।३१८॥ न चाज्ञायि तदा तेन,त्वमायातोऽपि भूपते। चेतनस्य हि चैतन्यमनु चित्तं महाचलम् ।।३१९॥ शरारुः कृष्णलेश्यावान् , रौद्रध्यानपरश्च सः। महातमःप्रभायोग्यस्तदाऽवर्सिष्ट दुष्टधीः॥३२०॥ त्वयि नत्वाऽऽगते त्वत्र,युध्यमानस्तथैव सः। मनसैव बहून् हत्वा, निष्ठितास्त्रोऽभवत् क्षणात्।।३२।। शेषानिहंतुमावेशात् ,शिरस्कायाक्षिपत्करम् । अशिरोज स्पृशन् शीर्षमसापीत् स पुनव्रतम्।।३२२॥ निंदित्वा बहुधाऽऽस्मानं,स्थापयित्वा पुनर्बते । महामोहादिदंभोलि,धर्मध्यानं दधार सः॥३२३॥ तेन सर्वार्थसिद्धाहः,सोऽभूत् तस्यामथो दिशि । दृष्ट्वा राद मुरसंपातं, प्रपच्छ किमिदं प्रभो। ॥३२४॥प्रभुः प्राह समुत्पेदेऽमुष्य संपति केवलम् । ततोऽस्य केवलज्ञानमहिमानं व्यधुः सुरा
DeaHOUGHOIGHORORDIGO
For Private and Personal Use Only