________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८
श्रमण-सूत्र
संस्तार-पौरुषी सूत्र अनुजानीत परमगुरवः,
गुरुगुणरत्नमण्डित - शरीराः । बहुप्रतिपूर्णा पौरुषी,
रात्रिके संस्तारकेतिष्ठामि ॥ १ ॥ अनुजानीत संस्तारं,
बाहफ्धानेन वामपार्श्वन । कुक्कुटी-पादप्रसारणे,
ऽशक्नुवन् प्रमार्जयेद् भूमिम् ॥ २॥ सङ कोच्य संदंशी,
उद्वर्तमानश्च कार्य प्रतिलिखेत् । द्रव्याधुपयोगेन,
उच्छ वासनिरोधेन आलोकं (कुर्यात्) ॥३॥ चत्वारो मङ्गलम्, अर्हन्तो मङ्गलं, सिद्धा मङ्गलं, साधवो मङ्गलं, केवलि-प्रज्ञप्तो धर्मो मङ्गलम् ॥४॥
चत्वारो लोकोत्तमाः, अर्हन्तो लोकोत्तमाः, सिद्धा लोकोत्तमाः, साधवो लोकोत्तमाः, केवलि-प्रज्ञप्तो धर्मों लोकोत्तमः ॥५॥ चतुरः शरणं प्रपद्ये, अर्हतः शरणं प्रपद्य, सिद्धान् शरणं प्रपद्य साधून शरणं प्रपद्य, केवलि-प्रज्ञप्तं धर्म शरणं प्रपद्ये ॥६॥
For Private And Personal