________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
. संत्कृतच्छायाऽनुवाद कायिकः . कायकृत इत्यर्थः, वाचिकः = वाक्कृतः, मानसिकःमनःकृतः ।
[ पुनः किं स्वरूपः कायिको वाचिकश्च ? ] उत्सूत्रः= ऊर्ध्व सूत्राद् उत्सूत्रः सूत्रानुक्त इत्यर्थः, उन्मार्गः, अकल्पः (ल्प्यः)= कल्पो विधिः श्राचारः न कल्पः अकल्पः, कल्प्यः-चरणकरणव्यापारः न कल्प्यः अकल्प्यः, अकरणीयः ।
[ मानसिकः किं स्वरूपः ? ] दुातः = दुष्टो ध्यातः दुर्ध्यातः, दुर्विचिन्तितः, अनाचारः,. अनेष्टव्यः = मनागपि मनसाऽपि न प्रार्थनीयः, अश्रमणप्रायोग्यः=न श्रमणप्रायोग्यः श्रमणानुचित इत्यर्थः,
[किं विषयोऽतिचारः ? ] ज्ञाने तथा दर्शने चारित्रे [भेदेन वर्णयति ] श्रुते, सामायिके
[सामायिकातिचारं भेदेनाह ] तिसृणां गुप्तीनां, चतुर्णा कषायाणां, पञ्चानां महाव्रताना, षण्णां जीवनिकायानां, सप्तानां पिण्डैषणानां, अष्टानां प्रवचनमातृणां, नवानां ब्रह्मचर्य गुप्तीनां, दशविधे श्रमण धर्मे श्रमणानां योगानाम् = व्यापाराणाम्
यत्खण्डितं=देशतो भग्न, यद्विराधितं =सुतरां भग्नम् तस्य मिथ्या मम दुष्कृतम् !
(७)
ऐर्यापथिक-सूत्र इच्छामि प्रतिक्रमितुम् ईर्यापथिकायां चिराधनायाम् [ योऽतिचार इति वाक्यशेषः ] .
गमनागमने, प्राणाक्रमणे - प्राण्याक्रमणे, बीजाक्रमणे, हरिताक्रमणे,... अवश्यया - उत्तिङ्ग - पनक-दक-मृत्तिका-मर्कट-संतानसंक्रमणे [ सति इति वाक्यशेषः ]
ये मया जीवा विराधिताः-दुःखेन स्थापिताः।
For Private And Personal