________________
Shri Mahavir Jain Aradhana Kendra
षट्स्थानक
प्रकरणम् ॥ ४१ ॥
***
www.kobatirth.org
त्पर्यस्तदवगमः, तत्र चाऽनुपयुक्तादिभाषितमेतदिति जानातीति योगः । तत्राऽनुपयुक्तः कार्यान्तरव्यासङ्गादिनाऽप्रणिहित_मनाः, आदिशब्दात्कषायादिदूषितास्थितादिग्रहः, स हि कदाचिद्विपर्यस्तमपि भाषते व्यासक्त्युपप्लुतचित्तत्वात् ततच तेन भणितं भाषितमिदं श्रूयमाणसूत्रं 'तुः ' वाक्यान्तरापेक्षया विशेषणार्थः, तेन एतत्पुनः 'उपयुक्तेन ' प्रणिहितमनसा एतच्च ' स्थितेन ' कोपाद्यदूषितचेतसा भणितमिति विशेषेण जानाति, न तु मुग्धवत्संमुग्धमर्थमात्रमवबुध्यते इत्यर्थः । कौशलफलमेवमन्यत्रापि द्रष्टव्यम् । इति गाथार्थः ॥ ४ ॥
तथा—
अविहिकया वरमकयं, असूयावयणं भणन्ति समयण्णू । पायच्छित्तं अकए, गरुयं वित्तहंकए लहुयं ॥५॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या—' विधिः ' आप्तोपदेशः, तद्विपरीतस्तु अविधिः तेन ' कृतं ' विहितं चैत्यवन्दनकादिकमनुष्ठानमिति शेषः, तस्माद् ' वरं ' मनाक् श्रेष्ठम् ' अकृतं सर्वथैवाऽननुष्ठितमिति ' असूयावचनम् ' इति पारिणामिकतया वक्तुरक्षमावचनमेतदिति ' भणन्ति ' प्रतिपादयन्ति, ' समयज्ञा: ' सिद्धान्तरहस्यविद इत्यपि जानात्यर्थकौशलवान् । कृतः ? इत्यत आह-' प्रायश्चित्तं ' विशुद्धिहेतुतपःप्रभृतिकम् ' अकृते ' सर्वथाऽननुष्ठिते ' गुरुकं ' महचरम् ' वितथकृते ' किश्चिदविधिकृते पुन: ' लघुकम् ' अल्पतरमभिहितमागमे इति गम्यते । तथाहि जीतकल्पाभिप्रायेण " फिडिए सयमुस्सारिय ' इत्यत्र कथञ्चित्प्रमादेन आचार्यादेः सकाशात् प्रथममेव त्रिः कायोत्सर्गोत्सारेण वन्दकदाने वा उत्कर्षतोऽपि चतुर्लघुक
"
For Private and Personal Use Only
++++******+******++*e* *6:
षष्ठं
स्थानम्
॥ ४१ ॥