________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
मेवोक्तम् ; सर्वथाऽप्यकरणे तु चतुर्गुरुकमिति । ननु यद्येवं तदा कथमविधिचैत्यवन्दनामुद्दिश्य " होइ य पाएण सा किलिदृसत्ताणं" इत्याद्युक्तम् ? भविधिवन्दनकमप्युद्दिश्य "किइकम्मं पिकुणतो, न होइ कियकम्मनिज्जरामागी" इत्याद्युक्तम् ? तस्माद् " प्रविधिकृतादकृतं वरम् " इत्येतनाऽसूयावचनं, समीचीनत्वात् । इति चेद्, नैवं, शैथिल्याऽशैथिल्यादेरिह प्राधान्येन विवक्षितत्वात् । यत्र हि शक्तोऽपि शैथिन्यादेरविधिना करोति तत्र तत्कारखं विपरीतफलमेवेत्यत्र न विप्रतिपत्तिः। यत्र तु सम्यक्करणकृतबुद्धिग्लोन्यादेरशक्तः सन् किश्चिदविधिनाऽपि करोति तत्र तत्सफलमेव । इति प्रशिथिलादिकमाश्रित्य नाविधिकृतादकृतं वरमिति भावः । इति गाथार्थः॥५॥
तथानरगाइ मंस-रुहिराइ,-वन्नणं जं पसिद्धिामत्तेणं । भयहेउ इहर तेसिं, वेउब्वियभावओ न तयं ॥६॥
व्याख्या-'नरकादौ' दुर्गत्यादिस्थाने 'मांस-रुधिरादिवर्णनं ' मांसाद्याशिनस्तत्र तच्छरीरोत्कर्तितपिशितादिखण्डान्येव भोज्यन्ते परमाधार्मिकरित्याधुपदर्शनं क्रियते श्रुतधरै रकाणामिति शेषः । अथवा नारकादीति उपचारात्तत्स्था नारका एवोच्यन्ते, ततो नारकाणां मांसादीत्यादि योज्यम् ; आदिशब्दाद् वसापूतादिग्रहः । एतत्सर्व प्रसिद्धिमात्रेण धातुमयानि पञ्चेन्द्रियशरीराणीति सामान्यजनप्रतीत्यैव; न तु सिद्धान्तानुसारेण, यद्येवं तत्किमित्युपवर्णनम् । अत आह 'भयहेतोः' पिशितादिलोलानां त्रासोत्पादनार्थम् । इतरथेति प्रसिद्धिमानं विहाय सिद्धान्तानुसारेण पुनस्तेषां नारकाणां वैक्रिय
For Private and Personal Use Only