________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थ
प्रकरणम्
स्थानम्
॥३४॥
धर्मोपायत्वन सम्यगवगम्य तथैव व्यापारयत उपायाविसंवादः । इति गाथार्थः ।। ११ ।।
अथ धर्मानुषङ्गिकफलत्वादर्थस्य तदुपायं नैश्चयिकमाह--- अत्थोवाओ पुन्नं, तं पुण सच्चेण ववहरंतस्स । अहवा अइलोभेणं, उद्धारगमाइ नो देइ ॥ १२ ॥
व्याख्या-'अर्थोपायो' द्रव्योपार्जननिदानं ' पुण्यं ' सुकृतं, तत्पुनः सुकृतं 'सत्येन' वचन-क्रियाद्यविसंवादलक्षणेन 'व्यवहरतः 'क्रय-विक्रयादि कुर्वतः श्राद्धस्य भवति, लोक-लोकोत्तरानिन्दितव्यवहारस्य चौर्यादिपरिहारस्येव सुकृतसाधनत्वाविसंवादात् । अनेन पुण्य व्यवसाययोः संहतयोः फलसाधकत्वमिति लक्षयति । अथ व्यावहारिकमपि तदुपायगणमभिधित्सुर्व्यवहारस्यैव विधेयाविधेयविभागमाह -' अथवा ' इति प्रकारान्तरद्योतकमव्ययम्, ततो 'अतिलोभेन' सातिशयधनगायन, ' उद्धारकादि नेति' उद्धारक सुवर्णादिग्रहणकमन्तरेण प्रतिभूमात्रग्रहणावष्टम्मपूर्वक स्वद्रविणवितरणम् । मकारोऽलाक्षणिक इति । आदिशब्दात् साचिमात्र ग्रहणपूर्वकदानग्रहः, तेन, अत्र तृतीयालोपः प्राकृतत्वात् : 'न ददाति'न वितरति स्वद्रव्यं श्रावकः, तथा दाने हि कदाचिद् बहुलाभसंभवेऽपि भूयसो लोकस्य कुशीलत्वेन प्रायो नीव्या अपि पतिसंभवादस्याऽविधेयत्वम् । एवमन्यत्रापि यथासंभवं द्रष्टव्यम् । इति गाथार्थः ॥ १२ ॥
तथा-- भंडंपि अइमहग्धं, न संगहे कुणइ निययमुल्लाउ। आसकरिगोणमाई, न नियट्ठा धारए मइमं ॥१३॥
॥ ३४॥
For Private and Personal Use Only