________________
Shri Mahavir Jain Aradhana Kendra
64
www.kobatirth.org
सर्वस्य भिक्षाचरादेरुचितदानं ज्ञानदानं च किम् १ इत्याह- ' धर्मस्योपायः ' पुण्यस्य साधकतमम् । 'इति' शब्दो दानलक्षणधर्मोपायपरिसमाप्तौ । इति गाथार्थः ॥ १० ॥
अथ शीलादित्रयमाह -
सीलं चित्तसमाहाण - मो उ सामाइयाइकरणेण । होइ चउत्थाइ तवो, भावण नेया दुवालसहा ॥११॥
व्याख्या—' शीलं ' तु सदाचारः । पुनः किम् ? इत्याह- चित्तसमाधानं ' विशुद्धान्तः करणैकाय्यम् । 'ओ' इति निपातः पादपूरणे. 'तुः पुनरर्थो योजित एव । सामायिकादिकरणेनेति ' समस्य-रागादिरहितस्य सत आयोज्ञानादीनां लाभः समायः स एव विनयादेराकृतिगणत्वाद् इकण्प्रत्यये सामायिकं - सर्वसावद्ययोगविरति परिणामः, तत्पूर्वकमनुष्ठानं च । श्रादिशब्द देशविरतिपरिणामादिग्रहः, तस्य करणं विधानं प्रतिपत्तिरिति यावत् तेन करणभूतेन ' भवति ' वर्तते ज्ञेयमित्येवंरूपतयाऽत्र वच्यमाणक्रियायोगः । तथा ' चतुर्थं ' भोजनचतुष्टयत्यागलचणम् एकोपवासरू - पमागमप्रसिद्धम्, आदिशब्दात् षष्ठाऽष्टमादिपरिग्रहः । तत्किम् ? इत्याह-' तप' इति निराशंसविशुद्धाध्यवसायेन बाह्याभ्यन्तरतनुताप कानुष्ठान विशेषः । तथा 'भावना' पूर्वोक्तस्वरूपानुप्रेक्षा ' ज्ञेया ' ज्ञातव्या श्रावण ' द्वादशधेति ' द्वादशप्रकारा । तदुक्तम् - भावयितव्यमनित्यत्वमशरणत्वं तथैकता अन्यत्वमशुचित्वं संसरिः कर्माश्रवः संवरविधिर्श्व निर्जरा लोकविस्तरः धर्मस्वाख्याततैश्वचिन्ताश्च बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः । एवं दानादिकं
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*****************ooft