SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् तृतीयं स्थानम् ॥२८॥ उचिएण चे विणएणं । जिण सासणवहरितं. सेसमततंति मन्नन्ते ॥ १॥"शेषस्य कथमतचरूपतेति चेत् ? उच्यते-- अप्रामाणिकार्थाऽभिधायकत्वेनाऽमूत्रत्वात् । तत्र हि प्रकृतीश्वरादयः पदार्थाः प्रतिपाद्यन्ते, ते च विचार्यमाणाः प्रमाणेनोपपद्यन्ते । यथा च नोपपद्यन्ते तथा सम्मत्यादिग्रन्थेभ्योऽवसेयम् : अत्र तु ग्रन्थगौरवभयानोच्यते इति । भतोय॑माणस्वाभावान्नार्थाः, तथा च तदभिधायकं कथं तत्सूत्रम् १, अर्थाभिधायकस्यैव मूत्रत्वाभिधानात् । तस्माम शेष सूत्र तत्वमिति दृदि निधायैव च सूत्रकारेण तदेवेत्यवधारणमकारि सूत्रे, अन्यथा किमनेन व्यवच्छिद्याद् ? इत्यर्थः । तदेवं कार्यद्वारेण सूत्ररुचिं व्याख्याय तदनन्तरमर्थरुचिमपि कार्यद्वारेणैवाह- पुनरुक्तं ' पौन:पुन्येन पृच्छया प्रश्नेन हेतुभू* ततया मर्थ सूत्राभिधेयं गुर्वादिभ्य एव श्रुतं सन्तं 'निःशङ्कितं ' निःसंदेहं करोति विधत्ते यः सोऽर्थरुचिरित्यध्याहारः । स हि समस्त श्रेयःकार्येषु समीचीनप्रवृत्तिनिवन्धनतया अर्थमभ्यवहुतं मन्यमानस्तत्राऽत्यादरवश्वेन तं समाकर्णयन् स्वल्पेऽपि संदेहे मुहुः पृच्छति. मा भूत् काचिदप्यथेसंदेहादन्यथा प्रवृत्तिरिति बुझ्या । तदुक्तम्-" सुत्तरुई विनसचो, संतो कजेसु अमुणियसुयत्थो । तो अत्थनाणहेऊ, भत्थरुई इत्थ सुपसत्था ॥१॥" एवमस्याऽर्थरुचित्वममिव्यज्यते । इति गाथार्थः ॥२॥ ___सत्यामप्यर्थरुचौ कथंचिदन्यथाऽवगमे करणे वा नाऽभिनिवेशो विधेय, इति तदनन्तरमनभिनिवेशनं तत्पूर्विकैव च करणरुचिरपि फलदेति करणरुचिं च कार्यद्वारेणैवाह ॥२८॥ For Private and Personal use only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy