________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याभिधेये रुचिर्यस्यासौ पर्थरुचिः । तथाऽभिनिवेशो वितधेम्वपि स्वनानेषु अनुष्ठाने वा सत्यत्वाग्रहः, स विद्यते यस्यासौ भभिनिवेशी, तादृशो यो न भवत्यसो भनभिनिवेशी, प्रज्ञापनीय इत्यर्थः। चः समुच्चये, तथेति प्रकारान्तरोपक्षेपार्थः । करणे सूत्रोक्तानुष्ठान विधाने रुचियस्यासौ करणरूचिः । तथाऽनिष्ठितोऽनवच्छिम उत्साहः करणाभिलाषातिशयो यस्यासौ भनिष्ठितोत्साहः स चेति । सर्वत्र चात्रैवं क्रमोपन्यासकारणं वश्यामः । इति गाथार्थः ॥ १॥
तत्रादौ तावत् समस्तार्थरुच्यादिगुणवत्त्वमूलभूता सूत्ररुचिः, तस्या अप्यर्थरुचिशून्याया भकिश्चित्करत्वात् तदनन्त| रमर्थरुचिं चाह
सुत्तं जिर्णिदसमए, जं जं रुच्चइ तदेव एयस्स । पुणरुत्तं पुच्छाए, अत्थं निस्संकियं कुणइ ॥२॥ ___ व्याख्या-पुत्रं ' पूर्वोक्तशब्दार्थ जिनेन्द्रसमये ' तीर्थकरसिद्धान्तविषये, ' यद्यत्' इति वीप्सया सर्व संग्रह| माह, तेनाऽर्थतस्तीर्थकरैर्य उपदिष्टः सिद्धान्तः पूत्रतस्तु गणधरैग्रंथितः । तदप्यव्यभिचार्यर्थाभिधायकं यद्यत् भगानङ्गप्रकीर्णकादिकं रोचते-भव्यतया प्रतिभासते तदेव जैनसूत्रमेव, न तु कपिलादिप्रणीतमपि एतस्य सूत्ररुचे श्राद्धस्य । यथाहि कश्चित्कामुकः कस्याश्चित् कान्तकान्तायामत्यन्तासक्तस्तद्वदनारविन्दमेवाऽनवरतमवलोकयति, लाघते, ध्यायति च; तथैषोऽपि श्राद्धः सूत्ररुचेः सकाशात् तदेकाप्रमनाः सन् तदेव सूत्रममृतमिव मन्यमानः पठति च गुणयति च भृणोति |च । किं बहुना ? तन्मय एवास्ते, अन्यथा सूत्ररुचित्वस्यैवाऽनुपपत्तेः । तदुक्तम् - " पढइ गुणेइ सुणेइ य, उचियं
For Private and Personal Use Only