________________
Shri Mahavir Jain Aradhana Kendra
61*******-*-**-**
www.kobatirth.org
अभिनिवेसी एसो, पन्नविओ मुयइ कुमाहं झति । आसेवेइ अभिक्खं, सुत्तत्तं तेण करणरुई ॥३॥
व्याख्या--' अनभिनिवेशी 'अतस्वानाग्रही ' एपो ' अयं श्राद्धो भवतीति गम्यते । ' प्रज्ञापितः परेगा तवं बोधितः सन् मुञ्चति त्यजति 'कदाग्रहं ' कुत्सितावबोधकरणाभिनिवेशं झटिति ' शीघ्रं प्रज्ञापनानन्तरमेवेति शेषः । अभिनिवेशस्य हि विपर्ययरूपतया तद्वतो ज्ञानं क्रिया वाऽकिश्चित्करे एवेत्यवगम्य सर्वथा तं परिहरन् अनभिनिवेशी प्रज्ञापनीयश्वासौ उच्यते, फलभागू भवतीति । तदुक्तम्न इवइ सम्म सुफला, भाई भन्बो विवजय भावा । तम्हा तप्पडिसेहो, गुणगणचीयं अमोहं ति ॥ १ ॥ अभिनिवेसो जीवो, पन्नवणिजो त्ति सुविद्दियजणस्स । होइ उवएसपिओ, तत्तो सो सील होई || २ || " अर्थरुचौ करणरुचौ वा नाऽभिनिवेशित्वमुपपद्यते इति तन्मध्ये तस्योपादानमिति । तथा श्रासेवते ' अनुतिष्ठति 'अभीक्ष्णं ' निरन्तरं ' सूत्रोक्तम् ' भागमप्रतिपादितं जिनपूजन-वन्दन कादिकमनुष्ठानं यत इति शेषः तेन यासेवनेन हेतुना करणरुचिरसौ भवतीति गम्यते । स हि सत्यपि मूत्रार्थरुचिमध्ये "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । न हि स्त्री - भक्ष्य - भोगज्ञो, विज्ञानात् फलमश्नुते ।। १ ।। " इति परिभावयन् विशेषतः करणे श्रद्धालुः स्यात् । तथैव च चारित्रयोग्यतया निर्वाणपथिकः स्यात् । तदुक्तम् - " सुपसत्थवित्थरपरभत्थविऊ वि करण विरहे रहऊ हियकरणेणं हियं न पावेद्द पाणी जं, तो करण रुई रुइरं कारणमन्वादयं हियत्थाणं पाणीणं निव्वाणपुरस्य " । इति गाथार्थः || ३ ||
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
**+193+3+