________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुचितस्य सर्वत्रापि परिहार्यत्वाद्विशेषतश्चैत्यादौ, तत्र हि केवलधर्मार्थप्रवृत्तः, विकृतवेषस्य तु कामादिजनकत्वेनाधर्महेतुत्वाभियमेन परिहारः । इति गाथार्थः ॥१७-१८ ॥
अथ विकृतवेषमाहलंखस्स व परिहाणं, गसइ वदेहं तहंगिया गाढा । सिरवेढो टमरेणं, वेसो एसो सिडिंगाणं ॥१६॥
व्याख्या-लस्येव ' शैलूास्येव 'परिधानं ' निवसनं यत्रेति शेषः, स ग्रभागपश्चाद्भागयोः प्रलम्बमानं प्रकटसमस्तोरुकाण्डमत्यन्तमाकृष्य च परिधत्ते । अनेन च सन्तलकपरिधानस्यैतविपरीतस्वरूपस्याविकृतता स्वयमेव प्रतिपादिता भवति, एवमुत्तरयोरपि द्रष्टव्यम् । तथा 'ग्रसत इव' गाढाकृष्टिपरिहिततयाऽऽत्मसात्कुर्वतीव 'देहं' शरीरं, 'तथा' इति वाक्यार्थोपचेपार्थों योजितश्च, 'मणिका' प्रतीता, कुतो ग्रसत इव ? यतो 'गाढा' शरीरेण निविडसम्बन्धवती तदभेदवती चेत्यर्थः। 'शिरोवेष्टः' मस्तकवेष्टनकवस्त्रविशेष: 'टमरेण ' इति विशेषणे तृतीया, शिरोवेष्टप्रान्तस्य विच्छित्तिविशेषवत ऊचीकृत्य बन्धनरूपष्टमरस्तेन विशिष्टः शिरोवेष्टो यत्रेति, 'वेषः'नेपथ्यम् एषः' ईदशो विकृतः 'षिङ्गाना' विटानां, न तु शिष्टानां भवतीति गम्यते । उपलवणं चैतत्-तेनान्यदपि यचःस्थलकेशापनयनं श्मश्रुरोम्णां वा रेखामात्राकारतया धारणं तदपि पिङ्गत्वापादकं विकृतबेषतया बोद्धव्यम् । अस्य चैवं विषनिन्दावाक्यस्य साचानिवृत्यनभिधायकत्वेऽपि परिणतिविरसं पनसमिति वाक्यवमित्तौ तात्पर्यम् । एवमुत्रस्मिन्नपि स्त्रीवेषनिन्दावाक्ये तात्पर्य बोद्धव्यम्, मत
For Private and Personal Use Only