________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
द्विताय स्थानम्
२४॥
परिहाणमणुब्भड, चलणकोडिमजायमोसरंतं तु। परिहाणमकमंतो, य कंचुओ। पच्छायंतं अंगं, सुसिलिटुं उत्तरिजमणुरुवं । विकियं तव्विवरीयं, वज्जइ जिणभवणमाईसु ॥१८॥ __व्याख्या-'परिधानम् ' निवसनम् 'अनुद्भटमेव ' अकृतभङ्गिविशेषबन्धनमेव, अनुस्वाराश्रवणं प्राकृतत्वात् 'च. लनकोटिमर्यादाम् ' पादाग्रसीमाम् ' ओसरंतं 'ति प्राप्नुवत् 'तुः' अवधारणार्थों योजितश्च, तथा परिधानं निवसनमाकामंश्चतुर्भिरङ्गलैराच्छादयन् , उपलक्षणं चैतत्-बाहू अपि करपर्यन्तमाच्छादयन्निति दृश्यम् । 'कञ्चुकः' अङ्गिकारूपो भवति । 'सुश्लिष्टः' धनवानादिद्यूत इत्यर्थः । भनेनातिसूक्ष्मवस्त्रमयत्वं निषेधति । 'प्राच्छादयत् ' प्रकर्षणादृश्यतां नयत् 'अङ्ग' शिरःप्रभृति पादपर्यन्तम् । अनेन संपूर्णस्यैव पटस्य प्रावरणौचित्यमाह, न तु तदर्द्धस्य, तस्य सकलाङ्गानाच्छादकत्वात् । ' सुश्लिष्टम् ' अतिनिबिडं, न तु मङ्कणकादिवदतिसूक्ष्मम् । ' उत्तरीयम् ' उपरितनवस्त्रम्, 'अनुरूपम् ' उचितं | भवति, पूर्वोक्तधर्मादिगुणाधायकत्वात् श्राविकाणामिति प्रक्रमः । यदि तु कदाचित्तलिनवसनाच्छादनमपि क्रियते तदा द्वितीयवस्त्रेणैव सह न केवलमिति भावः। एवनुभयेषामप्युचितं नेपथ्यमभिधाय विकृतं तदनिधित्सुः पीठमारचयति । 'विकृतं ' विकारवत् , मदनोद्दीपकत्वात् शिष्टोपहास्यत्वाच्च । ' तद्विपरीतम् ' उक्तादन्यादृशं नेपथ्यमिति प्रक्रमः, ' वर्जयति' परिहरति श्रावकादिः । तथा चोक्तम्-" वेसेण जेण दिद्वेण । सिट्ठलोप्रोभिमन्त्रए भणसा ॥ नूणं एस सिडिंगो-त्ति तं विवजिंति धम्मिट्ठा ॥१॥" विशेषतश्चाह 'जिनमवनादिषु' अर्हदायतनसाधूपाश्रयगमनप्रभृतिषु विशेषेण वर्जयतीत्यर्थः,
॥२४॥
For Private and Personal Use Only