________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मथ सुश्रावकाणामधिकृतं वेषमाहसंतलयं परिहाणं, ज्झलंबचोडाइयं च माज्झिमयं । सुसिलिट्ठमुत्तरीयं,धम्म लच्छि जसं कुणइ ॥१६।। __ व्याख्या-'सन्तलकम् ' बन्धेन विशेषवद् , यत्र परिहितपरिधानप्रान्तेनैव कच्छां दत्त्वा पुनः सङ्कोचितेन कटीवेष्टनं कृत्वा पश्चाद्भागे बन्धो दीयते, पूर्व वाऽग्रभागे बन्धं दत्त्वा पश्चादश्चलान्तरेण कच्छा दीयते मल्लादिवत् तत्सन्तलकं कच्छ याऽभिधीयते, एतच्चाग्रतः पश्चाच्चाप्रलम्बमानप्रान्ततया न विभूषाविशेषहेतुः स्यात्ततोऽनेनान्यदपि यत्तादृशं तदुपलक्ष्यते तेन सन्तलकसदृशम्, 'परिधानम् ' अधोनिवसनम् . झालंचं श्लथं चोलः परिधानं तदतिगच्छत्यतिक्रामति 'चोडातिगम् ,' परिधानोपरितनप्रान्तातिक्रान्तम् , ततो ज्झलम्बं च तच्चोडातिगं चेति कर्मधारयः, 'चः' समुच्चये 'मध्यमकम् ' सकलबाहुपृष्ठोदरादिमध्यमाङ्गाच्छादकमणिकालवणं द्वितीयं वस्त्रम् , तथा 'सुश्लिष्टम् ' प्रतलिनम् ' उत्तरीयम् ' उपरितनमाच्छादनवस्त्रमेतद्विधिना परिधीयमानम् 'धर्मम् ' पुण्यम् करोति' विधत्ते शास्त्रीयसदाचारत्वात् स्वपरयोर्मदनानुद्दीपक त्वाच, 'लक्ष्मीम् ' श्रियं चालघुतापादकत्वाजनानुरागहेतुत्वाच्च, ' यशः' की िच शिष्टतानिदानत्वादनुपहास्यत्वाच्च, करोतीत्यनुषज्यते, एवं चास्य वेषगुणवत्तोपवर्णनवाक्यस्य साचात्प्रवृत्त्यनभिधायकत्वेऽपि परिणतिसुरसमाम्रमिति वाक्यवत्प्रवृत्तौ तात्पर्यम् , तत एवंविधो वेषो विधेय इति भावः । इति गाथार्थः ॥ १६ ॥
अथ सुश्राविकाणां गाथाद्वयेन तमाह
For Private and Personal Use Only