________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
ना
पदस्थानक प्रकरणम्
द्वितीयं स्थानम्
॥१६॥
य पावए सो य ॥ अंगीकयगुणहाणिं ।। तेसिं न वाणं अलाम च ॥ १॥ एवं च असुहकम्मं । बन्धइ बद्धं च नेइ परिपो सं । तेण य भवकन्तारे । दुहतरफारे चिरं भमइ ।। २॥" क्रीडार्थस्य यमकादेनिषेधेन च देवस्तवाद्यर्थस्य तस्यादुष्टत्वमेवेत्युक्तं भवति । ततः संविग्नेन सुश्रावकत्वार्थिना सर्वा अपि क्रीडास्त्याज्याः । इति गाथार्थः॥३। । अथ शीलभ्रंशहेतुत्वेनानायतनविशेषत्वात्परगृहप्रवेशस्य तद्वर्जनायाह
तईयं उस्सग्गेणं, परघरगमणं विवज्जए एसो । सुन्नेगित्थीसहियं, विसेसओ दोससब्भावा ॥en ___ व्याख्या-तृतीय स्थानं शीलवत्त्वे एतत् । यत् 'उत्सर्गेण' सामान्येन तावन्निनिमित्तं 'परगृहगमन' अन्यसदनप्रवेशं विविधमनेकैः प्रकारैः कार्यान्तरव्यासंगविक्षेपादिभिर्वर्जयति परिहरति 'एषः' सुश्रावका, तेन सुसहायस्य तत्र ज्ञातसपरिकरतद्गृहपतिसद्भावस्य चात्यन्तिकप्रयोजनेन गमनेऽपिन दोषः। किश्चित् शून्यं तद्गृहपत्यादिरहितत्वात् , अपरमेकस्त्रीसहितं तदन्याङ्गनाऽभावात् , ततः शून्यं चैकस्त्रीसहितं चेति द्वन्द्वः । ईदृशं गृहं ' विशेषतः ' अतिशयेन प्रवेशाय वर्जयतीति योगः। कुतः ? इत्याह-दोषा यथाक्रम परद्रव्यपराङ्गनाभिलाषादयोऽपराधास्तेषां सद्भावः कर्मदोषादुद्भवस्तस्मात् । तथा चोक्तम्-"तथिथि दट्ठणं । खुभिज सयं व सा व खुम्भिजा ।। लुन्भेज परधणे वा । उभयम्मि जणो व संकिजा ॥१॥ एवं वयनासो से । अयसो बन्धो च होइ धणनासो । हुजा च पाणनासो । प्रायासो वा नियजणस्स १२॥” ततः परगृहप्रवेशं वर्जयति । इति गाथार्थः॥४॥
| ॥ १६ ॥
For Private and Personal Use Only