________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाव्यम् । तथा प्रश्ने प्रच्छन्ने सत्युत्तरं प्रतिवचनं प्रश्नोत्तरं, तत्प्रधानं काव्यमपि प्रश्नोत्तरम् । तच्च व्यस्तसमस्तचलद्विन्दुवर्धमानाचरशृङ्खलामञ्जरीपद्माद्यनेकप्रकारं क्रीडाकाव्यविशेषम् । यथा-"का प्रार्थ्यते विश्वजनेन सादरं, का वा विजेया बत चक्रिणामपि ।। कीदृग् नृपः स्यान्न पराभवास्पदं, भात्यम्बरे बन्दनमालिकेव । १॥" कासारसावली ।। " को चक्कतुम्बलग्गो । गोरीदेहड्डसंगो को वा ।। केलीए को दलिजइ । तरुणीण वियव तरुणहिं ।। १॥" आहारो लघुमञ्जरी सनाथजातिः ॥"गीतं शंसन्ति कीदृक् किमिह तनुभृतां दुःखदं रागियुग्मं । कीदृक् कं वा जघानामरपतिरभज द्यूतदोषः कमुच्चैः।। अर्ध किं कं च सभ्याः सदसि विवदिषु वारयन्ति स्म गावः । प्रायः किं वा चरन्ति प्रस्मरतुहिन वासरं काहगाहुः ॥ १॥" विपरीतं पद्मं कमलवनदवानलम् ।। "पुच्छइ लच्छी दईओ। अणंतरत्थे किमध्वयं होइ ।। संजोइयक्खरसुं । को उच्चारिजए पच्छा ॥१॥"अहरो वर्धमानाचरजातिभेदः । एवं भिन्नार्थतन्यश्रुतिपदावर्तनं यमकं तदपि पादतदर्धाद्यावृया नानाभेदम् । यथा-"रमणो रमणो रमणो। जाओ जूयारियाण असईण ॥ सरणं सरणं सरणं । कह तस्स वयामि दिव्व.
या। १॥" प्रादिशब्दात्प्रच्छन्नप्रकटार्थप्रहेलिकादिग्रहः । " छिद्दन्नेसणनिउणो । वसणासंगी वि लोहवंतो वि ॥ सगुणेसु पढमरेहं । को लहइ जणम्मि हीणोवि ॥ १॥" सूईउ प्रच्छन्नार्था । एवं प्रकटार्थाऽपि । परेणान्यार्थत्वेनामिहितस्य वाक्यस्यान्यार्थतया कम्पनं छलितं छलवचनमित्यर्थः । आदिशब्दात्तद्भेदग्रहः। यथा-" तुह वयणं पिच्छन्ती । अभं रुहरंपि किंपि न हु वेए । मुद्धे सद्दो सुम्मइ । कह पई दिट्ठो सुदिट्ठीए ॥१॥ " 'वर्जयति' परिहरति 'नित्यं' सर्वदा, सकृदप्येतत्क्रीडाप्रसंगे विटादिवत् कुशीलत्वापच्या सुश्रावकत्वव्याघातात् । तदुक्तम्-"किड्डाए वदृन्तो । होइ पमत्तो
For Private and Personal Use Only