________________
Shri Mahavir Jain Aradhana Kendra
पदस्थानक
प्रकरणम्
।। १८ ।।
******--++******++++**
www.kobatirth.org
" तदेवमायतन सेवनलक्षणः शीलवच्चप्रथमभेदः सप्रसंगः प्रतिपादितः अथ प्रासंगिकानायतन विशेषपोषकत्वात् क्रीडानां तत्परिवर्जनं द्वितीयं गाथार्धेनाह—
बीयं पुण ठाणमिणं, किड्डापरिवज्जणं कुणइ ॥ २ ॥
व्याख्या - द्वितीयं पुनः स्थानं सदाचारविशेषः शीलवच्चे 'इदं ' एतत्, यत्किम् ? इत्याह- ' क्रीडापरिवर्जनं ' द्यूतादेविनोद क्रियायाः परिहारं ' करोति ' विधत्ते श्रावक इति स्थानतद्भेदयोरभेदोपचाराद् द्वितीयस्थानमित्युक्तम् । एवमुतत्रापि द्रष्टव्यम् । इति गाथार्थः || २ ||
अथ वर्जनीयक्रीडा एवाह
चउरंगसारिपट्टिय-वेहाईलावगाइजुदाई || पन्हुत्तरजमगाई, छलियाई वज्जए निच्चं ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
********************
द्वितीयं स्थानम्
व्याख्या—राजहस्त्यश्वपदात्यादि चतुरङ्ग कल्पनया द्यूतं चतुरङ्ग, शारिकाभिः शरैः क्रीडनं शारिद्यूतं, परिवेष्टितचर्मदीर्घपट्टिकाच्छिद्रभेदेन द्यूतं पट्टिकावेधद्यूतं, आदिशब्दादन्धिकनाल चक्रादि समस्तद्यूतग्रहः, वर्जयतीति क्रियायोगः सर्वत्र । अत्र च द्रव्यनाशहस्तादिच्छेदादयो दोषा ऐहिका अपि सुप्रसिद्धा एव । तथा लावका स्तित्तिरविशेषाः । आदिशब्दात् कुर्कुटकुक्कुरमेषमलादिपरिग्रहस्तेषां युद्धमन्योन्य प्रहारादिना कलहविधापनम् | आदिशब्दात्तत्कुतूहलदर्शनादिग्रहः । अत्र योधने तेषामेवान्योन्यद्वेषवधवाधोत्पादादयः, दर्शने त्वसदाचारानुमोदनप्रशंसादयो दोषाः । एवं मिध्यादृष्टिरथप्रेक्षणकनाटककुतूहल दर्शनादिष्वपि ॥ १८ ॥