________________
Shri Mahavir Jain Aradhana Kendra
*************
www.kobatirth.org
सर्वस्थानशिरोमणिस्त्रिभुवने यद्दुर्लभं सच्छुभै - स्तद्दीचापरिकर्म शर्मशतदं संपद्यते कस्यचित् ॥ १ ॥
॥ इति युगप्रवरागमश्रीमज्जिनपतिसूरिशिष्यलेशविरचितायां षट्स्थानकविवृतौ व्रतपरिकर्म प्रथमस्थानक विवरणं समाप्तम् ॥
5
एवमुक्तं व्रतपरिकर्म नामकं प्रथमं स्थानकम् । तस्यापि निरतिचारतया सम्यगासेवनं शीलवत एव संभवतीति तदनन्तरं तस्यैवाद्यकारणभूतं शीलवन्त्वं प्रतिपिपादयिषुः पूर्वं तावत्तद्भेदसंख्यां तदाद्यभेदं तस्यापि विषयस्वरूपं चाहसीलत्तं पुण छद्धा, निच्चं आययणसेवरणा पढमं ॥ प्रययणं पुण साहू, पंचविहायारसंपन्नं ॥१॥
व्याख्या -' शीलवत्वं ' प्रागुपदर्शितार्थं ' पुनः' विशेषेण 'पोटा' षट्प्रकारम् । तदुक्तम् - "आययण १ सयलखेड - परिहरण २ मेवमनिमित्तं । परघरपवेसच्चाच ३ । विकियवयणस्स परिहारो ४ ॥ १ ॥ विकियबेसविवजण ५ मदुराराद्दत्तं ६ भवेच्छङ्कं ।। आययणसेवणं तत्थ होइऽणाययणचाएणं ॥ २ ॥ " ' नित्यं सर्वदा ' आयतन सेवनं ' सर्वादरेण तत्पर्युपासनलक्षणं ' प्रथमं ' आद्यं शीलवस्वं षट्सु भेदेषु वच्यमाणानायतनसंसर्गतद्भावनयोः प्रतिजन्माभ्यस्तत्वाच कदाचित्केनायतनसेवनमात्रेण निरोधः कर्तुं शक्यस्तस्यान्पीयस्त्वात् । किन्तु नैरन्तर्याद् आयतन सेवनेनैवेत्युपदर्शनार्थमिह नित्यग्रहण - मिति । सिद्धान्ते हि लोकोत्तरिकमायतनं द्रव्यभावभेदाद् द्विविधमुक्तम्, तयोरत्र भावायतनमाह - ' आयतनं पुनः ज्ञाना
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
«*@****************