SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् द्वितीयं स्थानम् ॥१७॥ दिगुणलाभोदयस्थानं पुनः ‘साधवः' ज्ञानादिभिः पञ्चभिराचारैर्मोवं साधयन्ति ये ते सुविहिताः । एतदेवाह-' पञ्चविधाचारसंपन्नाः । ज्ञानदर्शनचारित्रतपोवीर्यरूपपश्चप्रकारानुष्ठानविशेषयुक्ताः । ते हि दर्शनपर्युपासनादिना ज्ञानादिलाभ तन्वन्ति । भव्यानामिति भवन्ति भावायतनम् । उपलवणं चैतत् , तेन सिद्धान्ताभिहितसमस्तविधिप्रधानं विधिचैत्यमप्यायतनं, तस्यापि तथैव ज्ञानादिवृद्धिहेतुत्वात् । तदुक्तम्-" दवम्मि जिणहराई, भावम्मि उ होइ तिविहं तु ॥" त्रिविध. मिति ज्ञानादित्रयरूपं तद्युक्तसाध्वादिलक्षणमित्यर्थः । तत्सेवनं च श्रावकाणां महाफलम् । यदुक्तम्-"आययणसेविणो | सावयस्स, संवेगपमुहगुणनिवहो । वड्डइ जहा सुखित्तम्मि, रोविभो वनिसंताणो॥१॥"भास्तां तावद्यत्स्वयं ते महास्मान आयतनम् । यौते पवित्राचाराः परिवसन्ति तदपि तत्संसर्गपवित्रितत्वादायतनम् । यदुक्तम्-" जत्थ साहम्मिया बहवे, सीलवन्ता बहुस्सुया ॥ चरिचायारसंपना, आययणं तं वियाणाहि ॥१॥" तदेतत्सर्वमायतनं श्रावकाणां सेवनयोग्यम् । इति गाथार्थः ॥ १॥ अथायतनसेवाया अनायतनपरिवर्जनमन्तरेण कर्तुमशक्यत्वात्तत्प्रसंगादनायतनवर्जनं तावद्गाथार्धेनाह __वजेइ अणाययणं, वेसित्थि दुरांछिए कुतित्थी य॥ व्याख्या-'वर्जयति' परिहरति श्रावकः 'अनायतन' पूर्वोक्तायतनाद्विपरीतं ज्ञानादिहानिहेतुत्वात् । किं तत् ? इत्याह'वेश्यास्त्री ' पण्याङ्गना, 'जुगुप्सिता' लोकलोकोत्तरनिन्दिता व्याधवागुरिककन्पपालादयः । 'कुर्तार्थिकाः' अन्यद |॥१७॥ For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy