________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इदानी व्रतपरिकर्मणः प्रथमं भेदमुपसंहरन् द्वितीयतृतीयभेदावाहइय सुणिऊणं जाणइ, पुणरुत्तं पुच्छिउं असंदिद्धं । पच्छा इच्छइ काउं, पुर्दिवं परिकम्मणं कुणइ॥२५॥
व्याख्या--'इति' एवमगुरुदेवादिव्यवच्छेदेन गुरुदेवतदाराधनधर्मादिकं तदनुषङ्गेणैव मिथ्यात्वतद्धत्वनायतनादितत्परिहाररूपं शीलवत्त्वगुणवत्वस्थानादिकं च यावत् सर्व च ज्ञातव्यम् । 'श्रुत्वा' माकर्ण्य तदेव 'जानाति' अवगच्छति, | श्रवणकार्यत्वाद् ज्ञानस्य तदनन्तरमभिधानम् । कथमयं जानाति ? इत्याह-'पुनरुक्तं' पुनः पुनः 'पृष्ट्वा' गुरुमनुयुज्य 'असंदिग्धं' निःसंशयं, भृण्वतोऽपि यदा यदा संशय उत्पद्यते तदा तदा प्रश्नेन संशयमनूद्य सम्यगवगच्छतीति द्वितीयो भेदः । ततोऽपि "ज्ञानस्य फलं विरतिः" इति तृतीयभेदमवतारयति-' पश्चात् ' इति सम्यग्ज्ञानानन्तरं मुमुक्षुः संवेगातिशयात्तमेव ' इच्छति' अभिलपति ' कर्तुं' विधातुं संपूर्णमपि, तेन 'पूर्व प्रथम परिकर्म' निरतिचारद्वादशव्रतपरिपालनरूपपूर्वसेवालक्षणं करोति' विदधाति । अथवा भावतस्तनिष्ठोऽपि निबिडतरचारित्रावारककर्मोदयात्तत्र स्वस्यासामर्थ्य निश्चित्य देशविरतावपि प्रवर्तमानः पूर्व श्रवणादिकमेव परिकर्म करोति । इति गाथार्थः ॥ २५ ॥
अथ गृहीतपरिपालनरूपं चतुर्थ भेदमभिदधानो व्रतपरिकर्मस्थानकमुपसंहरबाहपालेइ जहासुद्धं, अइयारविवज्जियं जहासत्तिं । इय चउभेयं भणियं, पढमं ठाणं गिहत्याणं ॥२६॥
व्याख्या-'पालयति' आसेवते श्रावकधर्ममेव 'यथाशुद्धं सर्वथा निर्दोषम् । एतदेवाह-'निरतिचार' निरपवादम् ।
For Private and Personal Use Only