________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बदस्थानक प्रकरणम्
प्रथम स्थानम्
• मैथुनपरिग्रहयोः ' निधुवनद्रव्यसंग्रहयोर्विषये च विरतिः । अथवा जीवघातादिषु परिग्रहान्तेषु पञ्चस्वपि द्वन्द्वः । भदत्ता | इत्यत्राऽऽकारः प्राकृतत्वात् । 'देशेन' सर्वविरत्यवयवरूपतया, न तु यतिवत्सर्वथेत्यर्थः । तेन संकल्पजाद् द्वीन्द्रियादिवधात् कन्यादिविषयादलीकात् चौर्यापादकाददत्तात् परकलत्रविषयान्मैथुनाद् अपरिमितादर्थसंग्रहाद् निवृत्तिस्त्रिभिरपि करणैः करणकारणाम्या प्रत्याख्यानम् । अत एवाणुव्रतसंज्ञाख्यातिरेषाम् , महाव्रतापेक्षयाऽन्पीयस्त्वात् । एताब 'विरतयः' श्रावकस्य गुणा इतरजनेम्यो व्यावर्तका धर्माः । ततश्चैताः पश्चापि श्रावकधर्मवृक्षस्य मूलानीवेति मूलगुणाः 'एषाम् ' इति श्रावकाणाम् । तथा उत्तराः-ऊर्ध्वकालभाविनो विशिष्टतरकर्मक्षयोपशमसाध्यत्वेन प्रधाना वा गुणा उत्तरगुणाः, शाखादिवत् । विभक्तिलोपोत्र प्राकृतत्वात् । ' भवन्ति ' जायन्ते ' सप्तविधाः' सप्तप्रकाराः । तत्र चादौ दिग्गमनभोगोपभोगानर्थदण्डविरतयस्तिस्रोऽपि गुणवताख्या:, अणुव्रतानामेव गुणायोपकाराय व्रतानि नियमा इति कृत्वा; परिमितदिगादेः परतः प्राणातिपातादीनां सर्वथा निवर्तनहेतुत्वात् । तथा सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाश्चत्वारोऽपि शिक्षाव्रतानि, पुनः पुनः करणादेषां शिवाऽभ्यासस्तत्प्रधानानि व्रतानीति कृत्वा । एवमेते सप्तोत्तरगुणाः । एषा
च मूलगुणैर्मेलके द्वादश व्रतानि । तदुक्तम्-" पंचेव अणुवयाई, गुणन्वयाइं च हुंति तिमेव । सिक्खावयाइँ चउरो, | सावगधम्मो दुवालसहा ॥ १॥" तदयमेवं द्वादशविधः श्रावकधर्मः। भयं च द्वाविंशतिभेदभित्रोऽपि धर्मो मुक्तिहेतुजि. नाराधनोपायः, तद्वचनाराधनस्यैव तदाराधनोपायत्वात् , अस्य च तदनुष्ठानरूपत्वात् । ततः सिदमेतत्-“धमोदेवमोचः" । इति गाथार्थः ॥ २४ ॥
For Private and Personal Use Only