________________
Shri Mahavir Jain Aradhana Kendra
← •*@*•-**<- ++_+•1•*******•**••**••*@
तमेवाह
www.kobatirth.org
अरहंतुवइट्ठाणं, तत्ताग् रुईह होइ सम्मत्तं । तज्जुत्तस्त दुवालस, वयाई एयाई एस्स ॥ २३ ॥
व्याख्या- 'अर्हदुपदिष्टेषु' भगवत्प्रणीतेषु 'तभ्येषु' जीवादिषु पदार्थेषु सप्तम्यर्थेऽत्र षष्ठी, 'रुचिः' श्रद्धा - एवमेवैतदिति प्रत्ययः, ' इह ' प्रवचने भवति सैव च ' सम्यक्त्वं ' सम्यग्दर्शनं मोचाविकलवीजभूतम् । अनेन कः परिणामविशेषरूपो धर्मः ? इत्यस्योत्तरमुक्तम् । उपलक्षणाच्चास्य देशविरति सर्वविरतिपरिणामविशेषयोरप्येवमेव धर्मत्वं द्रष्टव्यम् । ततश्च तद्युतस्य' सम्यक्त्वसहितस्य देशविरतिपरिणामविशेषवतश्च द्वादश' द्वादशसंख्यानि ' व्रतानि नियमाः । ' एतानि ' अनन्तरमेव वच्यमाणानि ' एतस्य ' श्रावकस्य धर्म इति शेषः । अनेन च तत्पूर्वकमनुष्ठानमित्यस्योत्तरमभिहितम् । सम्यक्त्वसाहित्योपवर्णनं त्वत्र श्रावकधर्मस्येह प्रक्रान्तत्वात् । वस्तुतस्तु यतिधर्मस्याप्येतत्साहित्यं द्रष्टव्यमेव, अन्यथा तस्यापि नामधर्मत्वापत्तेः । इति गाथार्थः || २३ ||
थायैव श्रावकधर्मस्य मूलगुणोत्तरगुणभेदरूपतया द्वैविध्यमाहजियघायमुसादत्ता,-मेहुन्नपरिग्गहेसु देसेणं । विरई मूलगुणा सिं, उत्तरगुण हुंति सत्तविहा ॥ २४ ॥
व्याख्या -' जीवघातः ' प्राणिध्वंसः, ' मृषा' इत्यलीकम्, 'अदत्तं' इति परावितीर्णं वस्तु । अथवा मृषावादादत्तादानलक्षणपदसमूहे मृषादत्तादित्येकदेशोपचारः । ततो जीवघातश्चेत्यादिसमाहारः, तस्माद् देशेन विरतिरिति संबन्धः । तथा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
***0K+*K+++***