________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
प्रथम स्थानम्
॥१४॥
शिवम् , अत एवाह-'सदासौख्यं' नित्यानन्दम् । अयमभिसन्धिा -यथा निराशंसवैद्यस्य वचनविधानमेवाराधनम्, तदेव च रोगिणा रोगाभावाऽऽपादकम् , एवं वीतरागस्यापि वचनविधानमेवाराधनम्, तदेव च प्राणिनां शिवदम् । इति गाथाद्वयार्थः ।। २० ॥ २१ ॥
एवमुक्तं तदाराधनप्रश्नस्योत्तरम् । अथ धर्मप्रश्नस्याहतव्वयणुत्तासेवण-रूवो धम्मो उ सो दुहा भणिो । जइधम्मो खंताई, अगारिधम्मो इमो होइ॥२२॥
व्याख्या-तद्वचनोक्तासेवनरूपः' वीतरागप्रवचनोपदिष्टानुष्ठानविधानलक्षणः 'धर्मः' प्राग्निरूपितशब्दार्थः। स चायम्" दुर्गतिप्रसृतान् जन्तून् , यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ १॥" अनेन च अवीतरागोपदिष्टागमोक्तानुष्ठानस्याधर्मत्वमर्थादुक्तं भवति, अज्ञान्युक्तत्वेन तस्य सम्यग्जीवदयाप्रधानत्वाभावात् । 'तुः' पुनरर्थः, स च विशेषणार्थः । तस्य स्वरूपमभिधाय संबन्धिभेदाभेदमाह-'सः' धर्मः - द्विधा ' द्विप्रकारः ‘भणितः' प्रतिपादितो जिनैरित्यर्थाद्गम्यते । स च सर्वोऽपि वक्ष्यमाणलवणसम्यक्त्वसंगत एव तात्त्विकः, अन्यस्य त्वतिदुष्करस्यापि तामलिप्रभृतिविहितस्येव नामधर्मत्वात् । द्वैविध्यमेवाह ' यतिधर्मः' साध्वाचारः चान्त्यादिदशप्रकारः । तदुक्तम्-"खंती य मद्दवजव, मुत्ती तवसंजमे य बोद्धध्वे । सच्चं सोयं भाकि-चणं च भं च जइधम्मो ॥ १॥" ' अगारिधर्मः' गृहस्थसदाचारः पुनरयं वक्ष्यमाणभेदो भवति । इति गाथार्थः ॥ २२॥
।। १४॥
For Private and Personal Use Only