________________
Shri Mahavir Jain Aradhana Kendra
419+
*6
www.kobatirth.org
व्याधिस्तस्य हरणं-ध्वंसकम्, मुक्तिहेतुत्वात्, इतरस्यैवं सामर्थ्याभावात् । एतदपि कुतः ? इत्याह-' आश्रवद्वाराणां ' नूतनकर्मोपादानस्थानानां ' प्रतिलोमं ' इति प्रतिकूलं यतः सर्वाश्रवद्वारनिरोधरूपस्य भवध्वंसकत्वभावात् । इति गाथार्थः ।। १६ ।
एतदेव दृष्टान्तद्वारेण गाथाद्वयेन स्पष्टयन्नाह -
जह इह सुविज्जवयणा, अपत्थपरिवज्जरोण पत्थासी । पावइ दढदेहत्तं, निरुजो सइ सुक्ख आवासं ॥२०॥ इय तव्वयणाओ वि हु, अन्हयपरिवज्जणा सुकडसेवी । निस्सेसकम्ममुक्को, पावइ मुक्खं सया सुक्ख। २१ । व्याख्या—यथेति दृष्टान्तार्थः । इहेति लोके । 'यथा' येन प्रकारेण 'सुवैद्यवचनात्' इति, वैद्यकशास्त्राभिज्ञ एकान्त कारुfusो निराशंसश्च शोभनो भिषक् सुवैद्यस्तस्य वचनाद् – एकान्तहिताद्वाक्यात्कश्चिद्रोगी ' अपथ्यपरिवर्जनेन' श्रहिताशनादित्यागेन ' पथ्याशी ' हितमितभोजी ' प्राप्नोति ' आसादयति 'नीरुक्' निरामयः सन् ' दृढदेहत्वं सर्वथा रोगापगमात्पुष्टाङ्गत्वं 'सदा' सर्वकालं 'सौख्यावासं व्याधिवाधाऽभावादत्यन्तानन्दास्पदम् ॥ २० ॥ ' इति ' एवं ' तद्वचनादपि ' जिनोपदेशादपि 'हुः पूरणे, 'अन्य' इति भश्रवद्वाराणि समयभाषयोच्यन्ते तेषामपथ्यानामिव 'परिवर्जनात् ' - सर्वथा त्यागात्, 'सुकृतसेवी' पथ्यस्येव शुद्धचारित्ररूपसदनुष्ठानस्यासेवनशीलः ' निःशेषकर्ममुक्त: ' रोगैरिव समस्तज्ञानावरणादिभिस्त्यक्तः ' प्राप्नोति ' लभते ' मोक्षं नित्यज्ञानानन्दात्मकशाश्वतजीवस्वभावात्मकं
1
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
1K+******+******+******