________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक
प्रथम
प्रकरणम्
स्थानम्
सज्ज्ञानमहाव्रतादिविकलानामगुरुत्वमर्थादुक्तं भवति । तदुक्तम्--"सर्वाभिलाषिणः सर्व-भोजिनः सपरिग्रहाः। ब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ १॥" कथं शृणोति ? इत्याह 'विनयेन' नम्रत्वमनःप्रसादाञ्जलिप्रग्रहादिप्रतिपत्तिलक्षणो विनयस्तेन करणभूतेन । 'अनुग्रहपरः' इति, उपकारनिष्ठमनाः 'अनुगृहीतोऽस्मि' इति मन्यमान इत्यर्थः । अनेन च |* तस्यार्थित्वं दर्शितं भवति । तदुक्तम् --"अत्थी उ जो विणीभो" इत्यादि । 'च' अनुक्तसमुच्चये। तेन सामर्थ्यसूत्रा-* प्रतिकृष्टत्वलक्षणमपि रूपद्वयमागमप्रसिद्धं तस्य समुचितं भवति । तत्त्वतस्तादृशस्यैव तथाश्रवणोपपत्तेः। इति गाथार्थः ॥३॥ *
अथ प्रश्नपूर्वकं श्रोतव्यवस्तुतत्त्वमुपदिशन् श्रवणविधिमाह-- को देवो को धम्मो, को व तयाराहणे उवाउ ति । गीयत्थपायमूले, सुणेइ विगहाइपरिमुक्को ॥४॥
व्याख्या--'का' किंलक्षणः ' देवः' शक्रादीनामपि स्तोतव्यतयाऽऽराध्यतमः । कः 'धर्मः' दुर्गतिगर्तनिपतजन्तुजातधारणप्रवणः परिणामस्तत्पूर्वकमनुष्ठानं च । को वा 'तदाराधनोपायः' देवप्रसादनविधिः । वा शद्वः समुच्चये । इस्वत्वं प्राकृतत्वात् । “ यस्य येनार्थसंबन्धो दूरस्थस्यापि तस्य सः" इति न्यायाद् व्यवहितस्यापि देवस्य तच्छद्रेन परामर्शः । इतिशतः प्रष्टव्यवस्तुसमाप्त्यर्थः । एतत् सर्व 'गीतार्थपादमूले' पूर्वोपदर्शितस्वरूपाचार्यादिसमीपे । अत्र च पुनर्गीतार्थग्रहणं कचित्कदाचिद्गुरोरभावे सामान्यसाध्वादेरपि गीतार्थसकाशात् श्रोतव्यमिति ज्ञापनार्थम् , कालादिदोषात् शेषसमग्रगुणाभावेऽपि व्याख्यातुर्गीतार्थत्वस्याभ्यर्हितत्वेन सर्वाधिकारित्वसमर्थत्वात् । 'भृणोति' आकर्णयति 'विकथादिपरिमुक्तः'
For Private and Personal Use Only