________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाप्यते । ॥१॥” कीदृशाद्गुरोः ? 'गीतार्थात् ' सम्यक्प्रवृत्तिहेतुसूत्रार्थविदः । तदुक्तम्-" गीयं भगइ सुत्तं, मत्थो तस्सेव होइ वक्खाणं । गीयस्स य अत्थस्स य, संजोगा बिंति गीयत्थं ॥१॥"अनेन चासाधारणविशेषणोपादानेन समस्ततद्गुणोपसंग्रहः सूच्यते । तादृशस्यैव शुधर्मप्ररूपकत्वाधिकारित्वात् । तदुक्तम्--"देसकुलजाइरूवी, संघयणी घिइजुभो भणासंसी । अविकत्थणो अमाई, थिरपरिवाडी गहियवको ॥ १॥ जियपरिसो जियनिहो, मज्झस्थो देसकालभावन्नू । आसनलद्धपहभो, णाणाविहदेसभासन्नू ॥२॥ पंचविहे, आयारे, जुत्तो सुत्तत्थतदुभयविहन्न । पाहरणहेउकारण-नय निउणो गाहणाकुसलो ॥ ३ ॥ सैसमयपरसमयविऊ, गम्भीरो दित्तिमं सिवो सोमो । गुणसयकलिमो जुग्गो, पवयणसारं परिकहेउं ॥४॥" साम्प्रतं हि देवादिस्वरूपस्यापि गुरूपदेशमन्तरेण दुर्जेयत्वात् परीक्ष्य धर्माधिना विशेषविद् गुणगणोपेत एव सद्गुरुरङ्गीकार्य इति विशेषतस्तद्गुणोपवर्णनम् । अनेन च सद्गुरुस्वरूपाभिधानेन पाखण्डिमण्डलाभिमतगुरूणां
१ गीत भण्यते सूत्रम्, अर्थस्तस्यैव भवति व्याख्यानम् । गीतस्य चार्थस्य च, संयोगाद् ब्रुवते गीतार्थम् ॥ २ देशकुलजाति रूपी, संहननी धृतियुतोऽनाशंसी। अविकत्थनोऽमायी, स्थिरपरिपाटिगृहीतवाक्यः ॥ ३ जितपरिषद् जितनिद्रो, मध्यस्थो देशकालभावक्षः । आसन्नलब्धप्रतिभो, नानाविधदेशभाषाज्ञः ॥ ४ पञ्चविधे प्राचारे, युक्तः सूत्रार्थतदुभयविध(घि )ज्ञः । आहरणहेतुकारणनयनिपुणो पाहणाकुशलः ॥ ५ स्वसमयपरसमयविद्, गंभीरो दीप्तिमान शिवः सौम्यः । गुणशतकलितो योग्यः, प्रवचनसारं परिकथयितुम् ।।
For Private and Personal Use Only