SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kalassagarsur Gyan www.kobatith.org Shri Mahavir Jain Aradhana Kendra स्थानामेव संसर्गादगुणदोषौ भवतो भावुकद्रव्योपमत्वात्तेषां उत्कृष्टपुण्यपापानां त्वभावुकत्वेन न संसर्गात्कोऽपि विशेष इत्यर्थः॥ २८ ॥ ततः किमित्याह मूलम्-अइसयपावियपावा धम्मियपव्वेसु तो वि पावरया । न चलंति सुद्धधम्मा धन्ना किविपावपव्वेसु ॥ २९ ॥ व्याख्या-इह द्वितीयपदमध्योपन्यस्तः तो शब्दश्च सम्बध्यते, तेन यस्मादुत्कृष्टपुण्यपापाः संसर्गेण न गृह्यन्ते । तो तस्मादतिशयमाधिक्यं प्रापितं नीतं पापमशुभं कर्म यैस्तेऽतिशयपापितपापाः । धार्मिकाणां पर्वाणि पर्युषणादीनि धार्मिकपर्वाणि तेषु अपिशब्दोऽत्र योज्यते, ततो धार्मिकपर्वस्वपि पापरता हिंसाघशुभारम्भासक्ता भवन्तीति शेषः। आस्तामन्यदा तेषां हि तथा स्वाभाव्यात्पाप एव सर्वदा रतिरुत्पद्यते, न शुभकर्मणि । यतः-कणकुंडगं जहिताण विहं भुंजइ सूयरो। एवं सीलं चइत्ताणं दुस्सीले रमएमिए । १२४ ॥ तथा न चकन्ति न स्पन्दन्ते शुद्धधर्मात जिनप्रणीतधर्माडन्याः पुण्यवन्तः केऽप्यतिशयप्रापितधर्माणः पापपर्वस्वपीति गम्यम् । धर्मधीराणां हि स्वभाव एवार्य यन्यायमार्गान्न चकन्ति यतः-निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतुगच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा, न्यायात्पथा प्रविचलन्ति पदं न धीराः ॥१२॥ ततोऽयमभिमायो यद्यपि धर्म स्थिराणां पापपर्वस्वपि न चलति धर्माच्चित्तं तथापि सर्वथा तदनुवृत्यादि परिहर्तव्य SOCTOSSESS For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy