________________
Acharya Shri Kallassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ॐकल
लोभेन अथवाऽर्थलोभो द्रव्यपरिग्रहः स हि धर्मपरिभयः परिमन्थः सर्वदोषस्थानम् । यतः-"मोहस्यायतनं धृतेरपचयः शान्ते प्रतीपोविधियाक्षेपस्य सुहृद् मदस्य भवनं पापस्य वासो निजः । दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥ ७१ ॥ तेन च गृह्यन्ने परं मो गृह्यन्ते नोपादीयन्ते सुधर्मेण जिनप्रणीतधर्मेणात्रापि तृतीयार्थे सप्तमी । किं विशिष्टेन सुधर्मेण रम्येण रमणीयेन रमणीयता चास्य-" धर्माजन्मकुले शरीरपटुता सौभाग्यमायुबलं, धर्मेणेव भवन्ति निर्मलयशो विद्यार्थसम्पच्छ्यिः । कान्ताराच महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥ ७२ ।। इस्यादिवचनात् तदेतत्किमित्याह-हा ! मोहमाहात्म्यम् ? हा इति खेदे मोहमहिमा, मदुक्तं स्तुती मोहदोषान् प्रकटयता-"तुह दसणं निवारइ कारह सव्वत्थवत्थुवच्चास । चरणकरणम्मि सवं विद्धंसह दंसह कुमग्गं ॥ ७३ ॥ ततो मोहमाहात्म्याल्लोकाः स्वार्थरतस्वजनव्यामोहेन गजकर्णचंचलार्थलोभेन च गृह्यन्ते । यद् गृहीताचैहिकामुष्मिकदुःखभाजो भवन्ति नतु सुधर्मेणकान्त हितेन परलोकानुयायिना सर्वमुखनिदानेन गृह्यन्त इ. स्यर्थः ॥ १९॥ स्वजनव्यामोहादिना लोका गृह्यन्ते न सुधर्मेणेत्यभिधाय तथात्वे च सर्वलोकानां सम्प्रत्येव धर्मोच्छेद माशङ्कमामः कांश्चित्तथाविधगृहव्यापारेऽपि निबिडं मोहपरान् पश्यन् कांश्चिच्च धर्मपरान् पश्यस्त दपवादमाह
मलम्-गिहिवावारपरिस्सम-खिन्नाण नराण वीसमणठाणं ।
एगाण होइ रमणी अन्नसिं जिकिंदवरधम्मो ॥ २० ॥
5555SEKS%
For Private and Personal Use Only