________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक -
॥ २७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्गोपदेश तर्हि मोक्तव्य एव त्याज्य एव । तदुक्तं “ उम्मग्गदेसणाए चरणं नासंति, जिणवरिंदाणं । वावन्नदंसणा खलु नहु लब्भा तारिसा दहुं ॥ ७० ॥" अमुमेवार्थे दृढयन् दृष्टान्तमाह-जहेत्यादि-यथपम्ये, वरः प्रधानो विषादिदोषनिराकरणेन मणीरत्नं वरमणिस्तेन युक्तोऽपि सहितोऽपि 'छु ' रवधारणे स चाग्रे योजयिष्यते । विषधरो भुजगो लोके विघ्नकर एवं जीवितादिप्रत्यूहकर एव तस्मान्मोक्तव्य इति । यथाहि विषधरो वरमणियुक्तोऽपि विघ्नकर एव तथोत्सूत्रभाषी मणिसमानबहुगुणविद्यावानपि धर्मविघ्नकर एवेति मोक्तव्य इत्यर्थः ॥ १८ ॥ ननु यद्येवमुत्त्रभाषी विषधरवद्विघ्नकरत्वान्मोक्तव्यः, तर्हि किं न लोकैः स मुच्यत इत्याशंक्याह - मूलम् - सयणाणं वा मोहे लोया विप्पति अत्थलोहेण । नो धिप्पंति सुधम्मे रम्मे हा मोहमाहप्पं ॥ १९ ॥
व्याख्या- स्वजनानां स्वज्ञातीनां विशिष्ट आसमन्तान्मोहो मूढता व्यामोहस्तेन स्वजनानां व्यामोहेन द्वितीया तृतीययोः सप्तमीति प्राकृतलक्षणात् तृतीयान्तं पदं व्याख्यायते, ततो लोकाः सामान्यजनाः स्वजनानां व्यामोहेन गृह्यन्ते उपादीयन्ते स्वायत्तक्रियन्त इत्यर्थः । किलोत्सूत्रभाषी कुलक्रमायात गुरुत्यागेन स्वजनानां त्यक्ष्यन्ति अथवा मत् स्वजनैः सर्वैरपि एत water, अतोsहं कथमेतत्यागेन तेषां नाम निर्गमयामीति व्यामोहेन, तथा च शब्दस्याक्षेपादर्थंलोभेन गृह्यन्ते । प्रयोजनं तल्लोमेन एते द्यस्माकं मन्त्रतन्त्रज्योतिरौषधादिनोपकारं कुर्वन्तीति । कथमेतत्यागो युक्त इति प्रयोजन
For Private and Personal Use Only
प्रकरणम् ॥
सटीक ०
।। २७ ।।