________________
Acharya Shri Kallassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न पार्यते, तथा मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपीति भावार्थः ॥ १७ ॥ ननु यदि मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपि दुर्लभं तर्हि विद्यादिगुणवतां द्रव्यलिङ्गयादीनामनुवृत्तिः क्रियतां यथा कृतानुवृत्तयस्ते सम्यत्तवाङ्गीकारपरायणेषु धार्मिकेषु न द्विषन्तीत्याशयोत्सूत्राभिनिवेशसंक्लिष्टमनसां तेषां सङ्गमपि महानर्थकरं मन्धानो निवारयन्नाह
मुलम्-बहुगुणविज्झानिलओ उस्सुत्तभासी तहा वि मुत्तव्यो ।
___ जह वरमणिजुत्तो वि हु विग्घकरो विसहरो लोए ॥ १८ ॥ व्याख्या-उत्सूत्रभाषी मोक्तव्य इत्यन्वयः । यद्यपि बहुगुणविद्यानिलयः बहवः प्रभूता गुणा निष्ठुरक्रियाकरणादिरूपा यस्य स बहुगुणः । विद्याश्चतुर्दश श्रुताभ्यासरूपा वा तासां निलय इव निलयो गृहमिति यावत्ततश्च कर्मधारयः । अथवा बहुगुणेति विद्याविशेषणं बहुगुणत्वं च विद्याया लोके लोकोत्तरे च सिद्ध, तदुक्तं-" हत्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा-ऽप्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धि पराम् । कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्द्धनं, येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पहते ॥ ६८॥ (भतृहरे) जह जह सुषमवगाहइ अइसयरसपसरसंजुयमपुवं । तह तह पल्हाइ. मुणी नवनवसंवेगसद्धाए ॥ ६९ ॥ ततो यद्यपि बहुगुणविद्यानिळयस्तथापि तदपि उत्सूत्रभाषी सिद्धान्तविरुड
For Private and Personal Use Only