SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वक्ष्यमाणविधिरनविज्ञानं सिद्धमेव भवति । तथा लभ्यते माप्यते तथा तेन प्रकारेण चतुरिमा कुशलत्वं उचितकार्येषु दक्षवमिति यावत् । जनमध्ये तथाविधाविवेकिलोकमध्ये, न तु विवेकिनां मध्ये, ते हि भगवद्धर्मविकलं शेषकलाचतुरमध्यचतुरमेव मन्यन्ते । तदुक्तं- बावन्तरि कलाकुसला पंडियपुरिसा अपिंडिया चेव । सव्वकलाणं पवरं जिधम्मकलं अयाणता ।। ६४ । ततस्तादृशं सर्वविज्ञत्वं तथा चतुरिमा च तादृशजने सुखेन लभ्यते । किं नहींस्याह--' इक्कंपीति' अपिशब्दोऽवधारणे एकमेव हे भ्रातरिति चोपदेशस्य मीत्युत्पादनाय सम्बोधनं दुर्लभं दुष्प्रापं किं तदित्याह -- जिनमव विधिरत्न सुविज्ञानं जिनोऽर्हस्तस्य मतं शासनं तस्य विधिविधानमिति कर्त्तव्यताविशेषो जिनमतविधिः स एव रत्नमिव रत्नं चिन्तामणिस्तस्य सुष्ठु अतिशयेन विज्ञानं परिज्ञानमुपलक्षणत्वात्करणं च नाणकिरियाई मुक्खो ' इति वचनात् ज्ञानवत् करणस्यापि दुर्लभत्वं समफळस्वाद्वयोः दुरापता च विधिरत्नज्ञानस्यानन्तपुद्गलपरावर्त्तातिक्रमेण भव्यस्य चरम एव तस्मिन् भवतीति भणनात् । तदुक्तं -" तस्माचरमे नियमादागम षचनमिह पुद्गलावर्ते । परिणमति तत्वतः खलु स चाधिकारी भवत्यस्था ॥ ६५ ॥ इति । ततदमुक्तं भ बाह्यजनव्यवहारादि परिज्ञानचातुर्यादिकं जीवेनानन्तशो लब्धं लप्स्यते च । परं जिनमत विधिरत्नविज्ञानं तु समुपतितचिन्तामणिरिव दुर्लभं पूर्वोक्तयुक्तेरित्यर्थः ॥ १६ ॥ प्राग्जिनमतविधिरत्न विज्ञानदुर्लभतां प्रतिपाद्याधुना सम्यतरूपस्य तस्य कालादिदोषात्कथनस्यापि दुर्लभतामाह- For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy