________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - जिनवचनवेदिनामपि सर्वज्ञागमज्ञायकानामपि, अपिः सम्भावने सम्भाव्यत एतद्यत्प्राप्त जिनवचनानामपि केषां चित्कुग्रहगुरुयोगाद्भव सम्बन्धो दुःखदः । तदुक्तं स्तुतौ " तुह पययण पि पाविय संभाविय साहुसावगतं - पि । कुग्गहकुगुरूहउ पुण अणतखुत्तो दुहं पत्तो ॥ २४ ॥ " ततथ जिनवचनवेदिनामपि जीवानां प्राणिनां यत् यस्मात् कारणात् न भवति न जायते भवविरतिः संसारविरामः गोष्ठामा हिलादीनामिव। 'ता' तत् कथं केन प्रकारेण अविज्ञानां क्रमाज्जिनवचनाऽवेदिनां मिध्यात्वतानां पार्श्वे समीपे भवविरतिर्भवतीति सम्बध्यते, तेषां हि, " सुवैद्यवचनाद्यद्वयाधिर्भवति संक्षयः । तद्वदेव हि तद्वाक्यादुधुवः संसारसंक्षयः ॥ १ ॥" इत्यादिवचनप्रामाण्यात् संसारविच्छेदक भगवद्वाक्यावगमविकळत्वेन मिध्यात्वेन च "मिच्छत्त पडलसंछ- दंसणावत्धुसंमि नियंता । अमुतादियमहियमहियं निवदंति भवावडे जीवा ॥ १॥” इति वचनाद्दुरन्तभवभ्रमणहेतुनोपहतबुद्धित्वेन च भवविरतेरस - म्भव एव । तादृशानां प्रत्युतै केन्द्रियाद्यनन्तभवप्रतिपादनात् यत उक्तं- पण्डितधनपालेन ऋषभस्तुतौ -तेह समयसकभट्ठा भर्मति सयलासु रुक्खजाईसु । सारणिजलं व जीवा, ठाणठाणेसु बज्झता ॥ २५ ॥ " ततो
१ हे नाथ ? तब समयसरोभ्रष्टा भवत्सिद्धान्ततडाग विकलाः भ्रमन्ति पर्यटन्ति के ते जीवाः प्राणिनः, कासु रूक्षजातिषु हीनजातिष्वित्यर्थः । किमिवेत्याह--सारणिजलमित्र कुल्यावारीष, किं विधाः पच्यमाना कर्मणेति गम्यते केषु स्थानेषु नरकादिभेदभिन्नेषु किमुक्तं भवति यथा सरोभ्रष्टं सतसारणिजलं सकलासु वृक्षजातिषु भ्रा स्पति स्थानस्थाने वालबालेषु बध्यमानं तथा जीवाअपि तब समयभ्रष्टा नरकादिस्थानेषु भ्राम्यन्तीति गाथार्थः ॥
For Private and Personal Use Only