________________
Shri Mahavir Jain Aradhana Kendra
षष्ठिशतक॥ १५ ॥
www.kobatirth.org
न स्वकुक्रमे प्रवृत्ति कृतवान् परं कुलक्रमानपेक्षा चैवम, किल राजानो न्यायकुर्वन्तो नैवमपेक्षन्ते यदेतत्कुले चोर्यमागतमित्यस्माभिर्न हन्तव्योऽयम् । किन्तु कुलक्रमायातमपि चौर्य कुर्वन् विनाश्यत एव। यदि पुनरेवं लोके कुलकमे राजनीतिर्न प्रवर्त्तते तर्हि किमित्याक्षेपे पुनर्विशेषे त्रिलोकप्रभो खिजगतीस्वामिनः श्रीवीतरागस्य जिनेन्द्रधर्माधिराज्ये ' जिणंदधम्माहिगारम्मि' इति पाठ: क्वापीति जिनेन्द्रधर्माधिकारे वा जिनेन्द्रस्य धर्मो जिनेन्द्रधर्मस्तदेवाधिरायं जिनेन्द्रधर्माधिराज्यं तस्मिन् अधिकारपक्षे त्वेवम् अधिकारः प्रक्रमाद्राज नियोगो जिनेन्द्रधर्मस्याधिकार इव राज व्यापारे व जिनेन्द्रधर्माधिकारस्तस्मिन् कुलक्रम एव प्रवृत्तिः किलास्मत्कुले हिंसादिको धर्मस्तं कथं वयं त्यजाम इत्येवमादिरूपा समुचितेत्यर्थः ॥ अथ चैवं योजना कार्या लोके सामान्यजने राजनीतिन्यायं राजनीतिप्ररूपकं शाखमप्युप. चाराद्राजनीतिस्तया न्यायो निर्णयस्तं न कुळक्रमे कुलाचारापेक्षया प्रवर्त्तयन्ति राजामात्यादय इति गम्यते कदापि यदि चैवं तदा किं पुनस्त्रैलोक्यप्रभोजिनेन्द्रवर्माधिराज्ये धर्माधिकारे वा लोकोत्तरे कुल क्रमाग्रहस्य वाच्यमिति । तस्मात्कुक्रमायातधर्माभिनिषेशत्यागेन सुधर्म एव मनोविधेयमिति तात्पर्यार्थः ॥ ७ ॥ ननु यदि प्रवाहरूपस्य कुलक्रमाचारस्य धर्माजनकत्वेनाप्रामाण्यं तदा किमयं जनो भवभ्रमणहेतुभूतात्तदाग्रहादेर्न विरज्यते इत्यादिशंकाजिनवचन वेदिनामपि विरतिदुष्करतामभिदधतदज्ञानां विशेषेण तदुष्करतामाह
मूलम् - जिणवयणवियन्नूण वि जीवाणं जं न होइ भवविरई । ता कह वियन्नू मिच्छत्तहयाण पासम्मि ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
।। १५ ।।