________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यदीत्यभ्युपगमे भवति जायते मूढसदसद्विवेक विकलभर्म्मः कुगतिपवत्प्राणिधारणलक्षणः, इति शब्दो वाक्य समाप्त्यर्थः । 'ता' तदा म्लेच्छानामपि श्वपच किरातादीनामपि धर्मो भवतीत्यत्रापि सम्बध्यते प्रायस्तेऽपि स्वकुलक्रमं न लुम्पति स्वकुळक्रममात्रपालनमेव च परस्य धर्मोऽभिमतः । ततः किमित्याह - 'थक्केति थक्का देशी भाषया स्थिता निवृत्ता चशब्दोऽवधारणार्थे, अधर्मपरिपाटिः पापपद्धतिः । अयमर्थो यदि कुलकममात्रपालनादेव विषेकविकलस्य धर्मो भवति तदा म्लेच्छा नामपिधर्म एव भवति तथा चाधर्मपरिपाटिः स्थितैवेत्यर्थः ॥ ६ ॥ एवं सामान्येन लोकप्रवाहरूपस्य कुलक्रमस्य धर्मत्वे म्लेच्छादीनामपि धर्मवं प्रतिपादयता तत्वतस्तस्याधर्मत्वेनाप्रामाण्यमुक्तम् । अथ लोके लोकोत्तरे च विशेपतस्तस्य तदेवाह -
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - लोयम्मि रायनीई, नायं न कुलक्कमंमि कइया वि । पुण तिलोयपहुणो, जिणंदधम्माहिगारम्मि ॥ ७ ॥
किं
व्याख्या - लोके ज्ञातमुदाहरणमस्तीति शेषः, किं तज्ज्ञातमित्याह--' रायनीईत्ति ' राजनीतिर्न कुलक्रमेऽर्थवचाद्विभक्तिपरिणाम इति । न कुलक्रमापेक्षया प्रवर्त्तत इति गम्यम्, कदापि कस्मिन्नपि काले किमुक्तं भवति यथा राजनीतिः स्वकुलक्रमापेक्षया परकुलापेक्षया वा न प्रवर्त्तते । कोऽर्थः किल कोऽपि वणिगादिरपि राज्यं प्राप्य कृषिवाणिज्यपाशुपाल्यादिकं स्वकुलकमं नापेक्षते नन्दराजवत्, नन्दः किल नापितकुलोत्पन्नोऽपि देवनादतं पाटलीपुत्रराज्यमासाथ
For Private and Personal Use Only