________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
RE
पष्टिशतक
BRAGA
पकरणम् ॥ सटीक
S
OSLARARASI
ते स्वदचसैव देव ? ॥ १४ ॥ ततश्च 'इयराणति' कचिद्वितीयादेरित्यनेन द्वितीयास्थाने षष्ठीनिर्देशात् इतरान् देवविशेषान् वीतरागव्यतिरिक्तान् प्रणमन् तान् प्रति प्रह्वीभवन् उपलक्षणत्वादितरगुरून् प्रणमन् कुधर्मान्तराणि च कुर्वन् शुभकार्ये पुण्यार्थ सुखकार्ये वा सुखार्थ मूढ मुग्दबुद्धे मुषितोऽसि । यतस्तत्मणामान्मिथ्यावनिदानात् प्रत्युत पुण्यस्य सत्कार्यस्य वा सुखस्यापचय एव पापस्य तत्कार्यस्य वा दुःखस्योपचयो भवति, तदुक्तं-" प्रागेव दुष्कर्मकियन्नमूढेरुपार्जितं नाथ ! पुनर्यदेषाम् । देवान्तरोपासनया प्ररूढं बभूव तन्नाम नृणामृणार्णम् ॥ १५॥ तेषां चेतरदेवानां सन्मार्गस्खलितत्वेन स्वयं दुःस्थत्वात् तदुक्तं तद्भक्तैरेव-" ब्रह्मा लूनशिरा हरिदृशि सरकू, व्यालुप्तशिस्नोहरः । सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक्, सोमः कलङ्काङ्कितः । स्व थोऽपि विसस्थुलः खलु वपुः संस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥ १६ ॥” इति स्वयं दुःस्था कथमन्यान् स्वस्थीकतुं प्रभवन्ति, ततश्च यथा कश्चिद्रत्नाद्यर्थी केनचिद्दाम्भिकेन सङ्गतिं कुर्वन मुख्यते । तद्वदयमपि जीवो देवान्तरसङ्गत्या विद्यमानस्यापि शुभस्य नाशनेन मुष्यत इति भावः ।। ३॥ माग्जिनधर्मस्य भवदुःखनायकत्वमितरदेवसेवायाश्चाशुभस्यासुखस्य वा हेतुबमुक्तमिदानीं तदेव स्पष्टयमाह
मूलम-देवेहिं दाणवेहिय सुयोमरणाओ रक्खिओ कोइ ।
दढकयजिणसमत्ता, बहु यवि अजरामरं पत्ता ॥४॥
॥२०॥
For Private and Personal Use Only