________________
Acharya Shri Kalassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठिशतक
लान्नेत्रनन्दनः ॥ ६८॥ क्षमाभृदपि निष्कूटः ससत्योऽपि न मारमः । ब्रह्मचार्यपि नो तार-कारिः कान्तोऽप्यका-प्रकरणम् ॥ न्तकः ॥६९॥ महात्मा जिनकल्प्येको-नीरागो निःस्पृहोऽन्यदा। गृहागृहं परिभ्राम्यन् भिक्षायै तद्गृहेऽविशत् ॥७० ॥ कुलकम् । मृत्त धर्ममिवैन सा कल्पद्वमिव जङ्गमम् । निजाङ्गणागतं साधु, दृष्ट्वा हृष्टा स्वचेतसि ॥ ७१ ॥ सा समुत्थाय
सटीक० | सप्ताष्टौ पदान्यभिमुखं गता । ववन्दे तं च सद्भक्ति-भारेणेव नमच्छिराः ॥ ७२ ॥ प्रामुकैरसनाद्यैश्च, तं मुनि प्रत्यलाभयत् । पात्रदाने हि कस्य स्या-ग्न त्वरा सुकृतार्थिनः।। ७३ ॥ पतिलाभयमाना सा, मुनिनेत्रं जलप्लुतम् । दृष्ट्वा सम्यग्निरैक्षिष्ट-तत्त्वार्थमिव शुद्धधीः ॥ ७४ ॥ वातोद्भूतं तृण तत्र पतितं वीक्ष्य चेतसि । दध्यौ सा हि निरीहोऽयं महात्मा स्वतनावपि ॥ ७॥ स्वयं निम्नतिकर्मत्वा-नैतदेषोऽपनेष्यति । सति चास्मिन् शो दोषो महान् स. म्भाव्यते खलु ।। ७६ ॥ निष्काशयामि चेत्साधो देश एतदहं तदा । निःसारयामि संसार चारकास्त्वं विनिश्चितम् ॥ ७७ ॥ पतिलाभयमानैव ध्यात्वेति मुनिमस्तकम् ॥ गृहीत्वा करयुग्मेन लब्धलक्षतया क्षणात् ॥ ७८ ॥ दुनिष्कास्य विदित्वा तद् वनपान्तादिभिस्तृणम् । जिह्वाग्रेणातिमृदुना-पानयत्सा महासती ॥ ७९ ॥ सचक्राम च तन्मूर्ध्न
१ क्षमादपि पर्वतोऽपि निष्कूटः शिखररहितः यः क्षमाभृत् स निष्कूटो न भवति यः निष्कूटः स क्षमा. भृत् न भवति इति अत्र विरोधः । अथ समाधिः क्षमाभृदपि राजाऽपि निष्कूटः कपटेन रहितो वर्त्तते इ. त्यर्थः ॥ २. सत्यभामासहितोऽपि न मारसूः कृष्णः पूर्ववत् ,किन्तु सत्येन सह वर्तमानोऽपि न मारसूः कामजनकः ब्रह्मचार्यपि नो तारकारेः स्वामिकार्तिकः पूर्ववत् किंतु ब्रह्मचार्यपि तारकस्य गुरोः अहीरिपुनों वर्तते ॥ ३. कान्तोऽपि मनाक्षेऽप्येकान्तकः स्त्रीरहितः पूर्ववत्, किन्तु कान्तोऽप्यकान्तकः दुःखनाशकः ॥
M
For Private and Personal Use Only