________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| स्वपुरी बुद्धदासोऽगा-दापृच्छच जिनदत्तकम् ॥५५॥स वधूसहितस्तत्र, स्वजनैरभिनन्दितः। तस्थौ स्वस्थमनाः सौव-परि-3 वारविराजितः ॥५६॥ सुभद्रा तत्र तिष्ठन्ती, सम्यक्त्वे कृतनिश्चयाः । वीतरागात् परं देवं, मनसाऽपि ननाम न ॥५७ ॥ गुरुत्वेन मुनीनेव, साईतान् प्रत्यपद्यत । न धर्म श्रद्दधे चान्यं, विना केवलिभाषितम् ॥ ५८ ॥ तत्कुटुम्ब च बौद्धानां, (बुद्धेपु) भक्तं मुक्तिपरामुखम् । स्वधर्म प्रेरयन्तान्त, ज्ञाततवा न चाकरोत् ॥ ५९॥ द्वेष्याऽथ साs. भवत्तेषां, सुशीलापि कुटुग्विनाम् । चन्द्रोद्योतो हि चौराणां, कदापि न सुखायते ॥६०॥ पृथग्गृहे स्थापयत्ता तद्भर्ती श्राविकोत्तमाम् । विभ्यत्कलहतःप्रायः, शुद्धाः सकलेशभीरवः ॥ ६१ ॥ तस्यास्तत्रापि तिष्ठन्त्याः, अश्छि. द्राण्यमार्गयत् । न मनः शान्ततां गच्छेत्, कदाचिद् दृष्टिरागिणाम् ॥ ६२॥ तथाऽपि नाचलत्सा तु, स्वकीयाद्धर्मकमणः । चण्डाभिरपि वात्याभिः किं चलेन्मेरुचूलिका ॥ ६३ ॥ भक्तिसम्भ्रमसम्पन्ना, साधून साध्वीश्च सा सदा । प्रासुकैरेषणीयैश्च, प्रायोग्यैः प्रत्यलाभयत् ॥ ६४ ॥ निर्गच्छतः प्रविशतस्तत्रा-लोक्य मुनीन क्रुधा । बुद्धदासं तदम्बोच रकासितपटेष्वसौ ॥६५॥ न स प्रत्येति तयाक्यं, विदस्तच्छीळसौष्टवम् । शानिनो नैव मुथन्ति, मोहो ह्यज्ञानचेष्टितम् ॥ ६६ ।। विशालनयनः स्मेर-कुशे शयसमाननः । मुकुमारतनुस्ताम्र-करो दीपोच्चनासिकः॥१७॥ सुरूपः सुभगाकारो, विकारपरिवर्जितः। (निर्दोषपरमाणूनां समूह इव चाक्षुषः ॥) उत्कीर्ण इव चन्द्रस्य, मण्ड.
१. कमल.
For Private and Personal Use Only