________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CARSASAKULLUCC
पिच्छयाण धुवं । पार्वति जं अधन्ना न कयाह, मणिच्छिय अमयं ॥७॥""तथा सुद्ध धम्मंति' धारयति दुर्गतिप्रसृतान् जन्तूनिति धर्मः, यथोक्तम्-" दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते तथा । धत्ते चैतान
शुभे स्थाने तस्माद्धर्म इति स्मृतः॥८॥" स च लोकरूढया द्रव्यधर्मोऽपि भवति तयवच्छेदाय आह-शुबमिति 8 हिंसादिमलकलङ्कविगमाच्छुद्धो निर्मलखिकोटीदोषवर्जितवादा शुद्धः । इह च ' सुद्धं धम्म मिति प्रथमार्थे द्वितीया, | यथा 'चवीस पि जिणवर' इत्यत्र चकारः समुच्चये, तथा 'पंच नमुक्कारो'त्ति पंचानां परमेष्ठिनां नमस्कारः पञ्चनमस्कारः शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः । स च धन्यानां पुण्यवतां कृतार्थानां कृतो ग्रन्थिभेदलक्षणोsथों यैस्ते कृतार्थास्तेषां नाकृतग्रन्थिभेदानां हृदयेऽहंदादयो वसन्ति, निरन्तरं निर्व्यवधानं मिथ्यात्वपटलव्यवधान निरसनेन क्सति निवासं करोति हृदये चेतसि, अयं भावः । धन्यानां कृतार्थानां हृदये निरन्तरमहन् देवो वसति, मुगु
दिपदैरपि प्रत्येक क्रिया सम्बन्धनीया । अमुमेवार्थ मवादयितुं श्रीसुभद्रादृष्टान्तः प्रतन्यते तथाहि-" श्रेयो बीजानि जायन्ते, विनैव जडसङ्गमम् । यत्रानन्तफलान्यस्ति तत्क्षेत्रं भरताभिधम् ॥१॥ तत्रोत्तुङ्गजिनागार--प्राकारपरि| वारितम् । सुधाकरकरश्वेत--हर्यनिर्मितकौतुकम् ॥२॥धनाश्रयं निराकुर्वद् धनाश्रयमपि स्वयम् । कलाभृतां च मूराणा- मनेकेषामवस्थितः ॥ ३ ॥ सौराज्यसम्पदाभिः स्वः-पुरं स्वाभिर्विलडन्यत् । वसन्तपुरमित्यस्ति, पत्तनं पत्तनोत्तमम् ॥ ४॥ यत्र रूपगुण रामाः, कामिनां चित्तकुञ्जरान् । तथा बध्नन्ति नान्यत्र, यथाऽमी गन्तुमीश्वराः॥५॥
१ हिंसा ।
SACCESS
For Private and Personal Use Only