________________
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
CAUSAMUNDALISAOSHO
यसम्बन्धप्रयोजनमूचिकामाधगाथामाह
मूलम्-अरहं देवो सुगुरू सुद्धं धम्म च पंचनवकारो ।
धन्नाण कयत्थाणं निरंतरं बसइ हिययम्मि ॥१॥ व्याख्या-इह चाविघ्नेन शास्त्रपरिसमाप्तये मङ्गलमाचरणीयम् । तत्रापि द्रव्यमङ्गलस्यानैकान्तिकत्वादनात्यतिकवाच शास्त्रादावनुपादेयत्वं भावमङ्गलस्यैकान्तिकत्वादात्यन्तिकखाच्चोपादेयत्वं तच्चाहिंसादि, सदक्तम्- 'धम्मो मंगलमक्किळ अहिंसा संजमो तवो' इति, एवं चास्यानेकविधत्वेऽप्यान्तरतपोभेदस्वाध्यायरूपस्याईदायभिधानभणनस्यात्र विशेषेणोपादेयत्वम्, अईदादीनां मालवलोकोत्तमत्वशरण्यस्वाभिधानाच्च । यदाइ--चत्तारि मंगलमित्या. दि' भामग्रहणस्याप्यापदुद्धरणक्षमत्वाच्च । तदुक्तं-"आस्तामचिन्त्यमहिमा जिन ? संस्तवस्ते, नामाऽपि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्धजनान् निदाचे, प्रीणाति पमसरसः सरसोऽनिलोपि॥४॥" इति अहत्पदेन तदनन्तरं तदुक्तमार्गप्ररूपकमुगुरूपदेशेन च मङ्गलोपन्यासः, शुद्धधर्मपदेनाभिधेयोपन्या सः, यतोऽत्र ग्रन्थेऽभिनिवेशत्यागेनैव शुद्ध धर्म प्रयतितव्यमित्येवार्थतोऽभिधास्यतीति शुद्धधर्मस्येवाभिधेयता । सम्बन्धमत ज्ञाप्यज्ञापकलक्षणः, यथा शुद्धो धर्मों शाप्यः शास्त्रमिदं ज्ञापर्क सम्बन्धान्तरं वा सुधिया स्वधियाऽभ्याम् । पयोअवविविधमनन्तरं परम्परश्च,तदपि प्रत्येक द्विषिधम, कर्तुः श्रोतुश्च । तत्र कर्तुरनन्तरं शुद्धधर्मज्ञापनेन परोपकार:
For Private and Personal Use Only