________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-जानीत मिच्छद्दिद्वीति लुप्त विभक्तिकं पदं मिथ्यादृष्टीन् विपरीतदर्शनांस्तान् ये पतितालम्बनानि पतितानांमागभ्रष्टपावस्थादीनां तच्छ्रावकाणां चालम्बनानि तदाचीर्णकुमवृत्तिबहुमानलक्षणा अवष्टम्भा,यथा एतेऽपि भगवद्वेषधारिणो भगवदुक्तमागममेवाधीयते।ततः कथमेतदुक्तं चैत्यवासादिकमप्रमाणयामः।अथवा ते साधुरूपधारिणस्तथा तथा कुर्वाणा दृश्यन्ते,वयं किं ततोऽपि लष्टतरा, वस्तुपालादिना वा प्रपाकूपारामादिकं कारित।ततः किं सोऽस्मत्तोऽपि पन्दो निर्विवेको वा इत्यादीनि पतितालम्बनानि गृह्णान्त्याददते न भगवद्वचः ।यन:-सुयवज्झाचरणरया पमाणयंता तहावि हं लोग । भुवणगुरुणो धराया पमाणयं नावगच्छति ॥ ३५८ ॥ ये पुनः सम्यग्दृष्टयः शुद्धदर्शनास्तेषां मनश्चितं 'चडणपयडीएत्ति' घटनपदिकायां गुणस्थानारोहमार्गे भवतीति गम्यम् । सम्यग्दृष्टिहि चिरसेवितमपि पापं न बहु मन्यते किन्तु यं कमपि गुणं पश्यति तत्रैव रज्यते। यतः षोडशके-अमृतरसस्वादनः कुभक्तरसलालितोऽपि बहुकालम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव ॥ ३५९॥ ['अमृतेत्यादि' अमृतरसस्यास्वादस्तं जानासीत्यमृतरसास्वादशः कुभक्तरसलालितोऽपि कुभक्तानां कुदर्शनानां यो रसस्तेन लालितोऽपि अभिरमितोऽपि पुरुषो बहकालं प्रभूतकालं नैरन्तर्यवृत्त्याऽत एव कालाध्वनोरत्यन्तसंयोगं द्वितीया त्यक्त्वा परित्यज्य तत्क्षणं तस्मिन्नेव क्षणे शीप्रमेनं कुभक्तरसममृतरसज्ञत्वेन, वाञ्छत्यभिलपत्युच्चैरमृतमेव सूरभोज्यममृतमभिधीयते तद्धि सर्वरससंपन्नत्वात स्पृहणी
ॐॐाकर
For Private and Personal Use Only