________________
Shri Mahavir Jain Aradhana Kendra
12
www.kobatirth.org
गुरुणा । सद्धर्मदेशनाऽपि हि कर्तव्या तदनुसारेण ॥ ३५० ॥ इति दुर्ज्ञेयं, ततोऽतिशयज्ञानि - भिर्दश चतुर्दश पूर्व घरादिभिर्ज्ञायतेऽवगम्यते सम्यक् यथावस्थितत्वेन । अनतिशयज्ञानिनां सम्यक् परिच्छेदायो गात् । तथापि समयस्थित्या वर्तमान सिद्धान्तोक्तनीत्या व्यवहारनयेन ज्ञातव्यः । सिद्धान्तस्थितिश्श्रेयम् - " उस्सग्गववायविउ गीयत्थो निस्सिओ य जो तस्स । अणिगृहंतो विरिथं असढो सव्वत्थचारिची" ॥ ३५१॥ तथा - निच्छ्यओ दुन्नेयं, को भावे कम्मि बट्टए समणो । ववहारओ उज्जुज्जइ जो पुव्वट्ठिओ चरितमि ||३५२ ॥ इत्यादिकेन व्यवहारनयेन वेदितव्यो, जिनधर्माराधकगुरुद्वारा जिनधर्म इति गाथार्थः ॥ १३७ ॥ ननु कथमेवमिति तदित्याह-
मूलम् - जम्हा जिणेहिं भणियं सुयववहारं वि सोहियं तस्स । जाय विसुद्धबोही जिण आणाराहगत्ता ॥ १३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-यत्मात्कारणा ज्जिनैरर्हद्भिर्भणितं प्रतिपादितं श्रुतव्यवहारं विशोधयतः तृतीयार्थे द्वितीयेति श्रुतव्यवहारेण विशुद्धिं कुर्वतश्चारित्रस्येति गम्यते । जायते भवति विशुद्धा निर्मला बोधिर्जिनधर्मप्राप्तिः केवलिनाऽपि श्रुतव्ययतारस्याङ्गीक्रियमाणत्वात् । यतः - यवहारो वि हु बलवं जं छउमत्थं पि बंदए अरहा । आहाकम्मै भुंजइ सुयववहारं पमाणं तो ।। ३५३ ॥ कुत एवमित्याह-- जिनाज्ञाराधकत्वात् जिनाज्ञा चैवम्--जह जिणमयं
For Private and Personal Use Only