________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्॥
पष्टिशतक॥१५॥
संटी०
MAUSICOLASSA
त्राणं स इति दृश्य, सम्पति वर्तमानकाले यो युगमधानगुरुयुगप्रवराचार्यः तस्य तु नियत मुगुरुत्वादिति गाथार्थः ।। १३६ ॥ नन्वेवं लब्धेऽपि सुगुरौ किमेवं तब संशय इत्याह
मूलम्-जिणधम्म दुन्नेयं अइसयनाणीहिं नज्जए सम्म ।
तह वि हु समयईिए ववहारनएण नायव्वं ॥ १३७॥ व्याख्या-जिनधर्मः सर्वज्ञपणीतो धर्मः श्रुतचारित्रलक्षणो दुर्जेयो दुःखावगम्योऽत्र विभक्तिव्यत्ययादिकं प्राग्वत् । दुज्ञेयत्वं चोत्सर्गापवादनिश्चयव्यवहारादिनयतः प्रतिपादितत्वात् । यथा 'गम्भीरं जिणवयणं दुविन्नेयं अनिउणबुडीहिं' इत्यादि । अथवा कमप्युद्दिश्य लिङ्गमेव वर्णित, कमपि चोद्दिश्य वृत्तं,कंचन चाश्रित्यागमतत्वं, कयनीयतयोक्तं, यतः-षोडशके-बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ३४८ ॥ बालो--विशिष्टविवेककिलो लिङ्ग-वेषमाकारं बाह्यं पश्यति, प्राधान्येन धर्मार्थिनोऽपि तस्य तत्रैव भृयसा रुचिप्रवृत्तः । मध्यमवुद्धिस्तु मध्यमविवेकसम्पन्नो विचारयति मीमांसते , वृत्तं वक्ष्यमाणस्वरूपं प्राधान्येन समाश्रयति तत्रैवामिलापत्वात २ आगमतत्त्वं त्वागमपरमार्थमिदं पर्यवरूपं बुधो विशिष्टविवेकसम्पन्नः परीक्षते समीचीनमवलोकयति सर्वयत्नेन सर्वादरेण धर्माधर्मव्ययस्थाया आगमनिबन्धनत्वात् । यत उक्तं-धर्माधर्मव्यवस्थायाः शास्त्रमेव नियामक । तदुक्तासेवनात धर्मस्स्वधर्मस्तविपर्ययात् ॥ ३४९॥ बालादिभावमेवं, सम्यग्विज्ञाय देहिनां दू
र
%
For Private and Personal Use Only