________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
A
SSES
व्याख्या-अयता यतनारहिताः षड्जीवनिकायवधनिरपेक्षा इति यावत् । अत एवातिपापिष्टाः पापकर्मवन्धप्रधानाः । अयतानां च पापिष्टत्वं प्रतीतमेव, यदार्ष, “ अजय चरमाणो य पाणभूयाइहिंसह । धंधा पावयं कम्नं तं से होइ कडुयं फलं ॥४२॥ इत्यादि ये भवन्तीति गम्यते । तेऽपि शुद्धगुरवो गौतमादिकल्पा अथवा किंबहुना ! जिनवरेन्द्रतुल्याः सर्वज्ञसमाः 'पडिरूवो तेयस्सी' स्यादि वचनभणनात् । इत्येवं पूर्वोक्तप्रकारेण अयता अपि जिनवरेन्द्रतुल्याः इति यः कोऽप्यविवेकपटललुप्तबल इह जगति मन्यते जानाति, स तादृशो विमुखः पराङ् मुखः सवधर्मस्य श्रुतचारित्ररूपस्य । यतः-किइकम्मं च पसंसा सुहसीलजगम्मि कम्मबंधा य । जे जे पमायठाणा ते ते उववूहिया हुंति ॥ ३४३ ।। अतः कर्मबन्धनात्प्रमादस्थानोपणाच धर्म कुर्वाणोऽपि धर्मविमुख इति सूक्तमिति गाथाथैः ॥ १३०॥ धर्म विदधतोऽपि कथं धर्मविमुखत्वमित्याशङ्कायामुपदेश्यमुद्दिश्याह
मूलम्-जो तं वंदसि पुज्जसि वयण होलेसि तस्स राएण।
ता कह वंदसि पुजसि जणवायठिई पि न मुणेसि ॥ १३१ ।। व्याख्या-य इति व्यत्ययोऽप्यासामिति वचनाद् द्वितीयार्थे प्रथमा ततोऽयं श्रीजिनं त्वं च बन्दसे स्तौषि अभि बादयसि वा पूजयसि पुष्पादिभिरर्चयसि रागेण प्रस्तावात्स्वगुरुपरूपितोत्सूत्रादिदृष्टिरागेण।तस्य वन्दनीयस्य एव च शब्दयोरध्याहारात्तस्यैव च वचनमागमरूपं हीलयसि निंदसि नदुक्तानासेवनेनावमन्यसे । 'ता' तर्हि कथं यत्तदोनि
For Private and Personal Use Only