________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ १०२ ॥
8
12
www.kobatirth.org
व्याख्या -दृष्टा अवलोकिता अपि आस्तां श्रुताः केऽपि गुरवः साधुसामाचारीनिपुणाः केचिदाचार्या न तु सर्वेsपि कस्यचिद्युगप्रधानस्य सक्ष्वात् । तत्राप्यनास्थायां तस्वचिताभावः हृदये चेतसि न रमन्ते, सुणिततश्वानां ज्ञातपरमार्थानां । ज्ञातवास्तु जानंति यन्नैकाकि ज्ञानं सुगुरुवाहेतुर्नैकाकिनी क्रिया च किन्तु ज्ञानक्रिये द्वे अपि संवेगयुते सुगुरुताकारणं भवतः । ततस्तेषां चेतसि व एव रमंते ये संवेगज्ञान क्रियासहिता भवेयुः । दृश्यमानेषु च क्वचित्संवेग - भावः क्वचित्क्रियाभावः क्वचिन्ताभावः ये चैकतमेनापि विकलास्ते ज्ञाततत्वानां हृदि न सन्तोषपोषं दधति । केपिपुनरष्टा एवानवलोकिता एव । तच्चरिताकर्णनेन तत्कृतग्रन्थदर्शनेन च तत्त्वज्ञानां हृदये रमन्ते । क इव जिनवल्लभो यथा एतद्ग्रन्थकर्त्ता हि श्रीनेमिचन्द्र श्रावकः श्रीजिनबल्लभसूरिभ्यः प्रभूते काले व्यतीते जातस्ततस्तच्चरितश्रव'णात्कृत संवेगजनक द्वादश कुलकादिग्रन्येभ्यचैत्य वासाद्य विधिमार्गनिर्लोटनतस्वत्परम्परायात साधुसामाचार्याः श्रुताविसंवादित्वाच्च तान् ज्ञानक्रियासंवेगयुतान् सुगुरून् विनिश्चित्य तद्गुणाकृष्टवेतास्तद्भक्तिसारघनसारवासितान्तःकरण इदमाह श्रीजिनवल्लभ इबादृष्टा अपि केऽपि परमार्थवेदिनां हृदि रमन्त एव । तस्माद् ये गुरवो जिनवल्लभसदृशास्तेषां पार्श्व एव श्रोतव्यमिति गाथार्थः ॥ २९ ॥ एवं सत्यपि ये कुगुरूनपि सुगुरूनिव मन्यन्ते तान्निराकुर्वन्नाह -
मूलम् - अजया अइपाविट्ठा सुद्धगुरुजिणवरिंदतुल्लति ।
जो एवं इह मण्णइ सो विमुहो सव्वधम्मस्स ॥ १३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
॥ १०२ ॥