________________
Shri Mahavir Jain Aradhana Kendra
12
www.kobatirth.org
मूलम् — कइया होहि दिवसो जड्याहं सुगुरुपायमूलम्मि ।
उस्सु लेस विसलव - रहिओ निसुणेमि जिणधम्मं ॥ १२८ ॥
व्याख्या -- कदा कस्मिन् काले भविष्यति स इति गम्यं दिवसो दिनं प्रहरमुहूर्त्तपक्षमासवर्षीपलक्षणं । यदा यस्मिन् काले दिवसा गुरुपादमूले सुविहितगीतार्थधर्माचार्यचरणसमीपे स्थित इति दृश्यम् | जिनधर्म निशृणोमि वर्त्तमानसामीप्ये वर्त्तमानवद्वेति वचनादईद्धमै निश्चितः श्रोष्यामि । किंविशिष्टः सन् उत्सूत्रलेशविषलवरहितः कोऽर्थः पूर्वाकणितोत्सूत्रलेशेऽप्यनास्यापरतया विषलवप्रायेणोत्सूत्रेण बिना कृतो निरभिनिवेश इति यावत् । अभिनिविष्टो हि युक्तमप्युच्यमानमाग्रहादयुक्तमिति मन्यते । तदितरस्तु युक्तियुक्तमेव मन्यते । यतः आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्यनिविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ ३४१ ॥ ततश्च श्रद्धाबता सुगुरुपादमूले निरभिनिवशेन श्रोतव्यमिति गाथार्थः ॥ १२८ ॥ ननु कदाहं सुगुरुपादमूले श्रोष्यामीति किममुक्तम, एवं वचनं तु गुरोर्दुर्लभतायां युक्तं सम्प्रत्यपि मलमलिनगात्रा एषणीयाहारग्राहिणो यावद्वबहवोऽपि दृश्यन्त एव तत्र धर्मोपदेष्टारो गुरव इत्याशंक्याह
मूलम् - दिघा विकेवि गुरुपो हियए न रमंति मुणियतत्ताणं । दिच्चिय मंति जिणवल्लहो जेम ॥ १२९ ॥
केवि पु
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only