________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
कर्मणां हितोपदेशो महादोषो द्वेषो वा जायते तस्मात्तान् प्रति मा बहु बहु जल्पतेति गाथार्थः ॥ १२५ ॥ कुतो हितोपदेशो महादोषो जायते कुतथ मा बहुकं जल्पतेत्यत आह
मूलम् - हिययम्मिये कुसुद्धा ते किं बुज्झंति सुद्धवयणेहिं । ता नाणकए गुणिणो निरत्थयं दमहि अप्पाणं ॥ १२६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - हृदये मनसि ये कुशुद्धा अभिनिवेशादिदोषकलङ्कपङ्ककलुषिताः, ते किमित्याक्षेपे बुद्धयन्ते शुद्धवचनैनिंदपागमवाक्यैः अपि तु न बुद्धयन्ते । यतः - "स्वं दोषं समवाप्य नेक्षति यदा सूर्योदये कौशिको, राद्धिं कां | कुटको न याति च यथा तुल्येऽपि पाके कृते । तद्वत्सर्वपदार्थभावनकरं सम्प्राप्य जैनं मतं, बोधं पापधियो न यान्ति कुजनास्तुल्ये कथासम्भवे ॥ ३३९ ॥ ' ता ' इति तस्मात्तेषामशुद्धहृदयानां कृते गुणिनो ज्ञानादिगुणवन्तो निरर्थकं निष्प्रयोजनं दमयन्ति तत्प्रतिबोधोद्यमेन खेदयन्ति आत्मानं स्वं । गुणिनो हि परप्रतिबोधाय परोपकाकरसिकतया स्वात्मानं क्लेशयन्त्यपि तेनेदमुच्यते यत्तेषां कृते निरर्थकमात्मानं दमयन्तीति गाथार्थः ॥ १२६ ॥ एवमुपदेशानहन्निराकृत्याथोपदेश्यान् प्रति लेशेनाराद्धस्यापि जिनधर्मस्य फलमाह
For Private and Personal Use Only