SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक ॥ ९७ ॥ 4 12 www.kobatirth.org arosपि हास्यकथा, लघुतां वा क्षुल्लको नयति३३६अयभावः प्राग् ये सच्वहीना उक्तास्ते तु स्तोकेऽपि कारणे पाप सेवन्ते । एते पुनः कारणमन्तरेणैवाज्ञानमदोन्मत्ता अभिनिविष्टाः सन्त उत्सूत्रं जल्पन्तीत्यधमाधमाः । तस्मात्तेषामुत्सूत्रभाष काणां पाण्डित्यं विधि धिगस्तु । यदकारणमपि दुर्गतिं नयतीति गाथार्थः ॥ १२१ ॥ ननु ते कुतोऽधमात्रमा धिक् तेषां पाण्डित्यं ये उत्सूत्रं जल्पन्तीत्याशङ्कयाह- मूलम - जं वीरजिणस्स जिओ मरियभवुस्सुत्तलेसदेसाओ । सागरकोडाकोडी हिंडइ इभीमभवगहणे ॥ १२२ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या पद्वीर जिनस्य जीवो यस्मात्कारणान्महावीरस्वामिन आत्मा मरीचिभवे भरतपुत्रत्वे उत्सूत्र लेशदेशनतः 'कविला इत्थंपी इथंपी'ति वचनकथनतः सागरकोटाकोटिं सागरोपमकोटाकोटिं हिंडति भ्राम्यति वर्त्तमाननिर्देशस्तकालापेक्षयाऽवसेयः क्व हिंडतीत्याह- अतिभीमभवगहनेऽतिशयेन भयानके संसारकान्तारे इदमत्र तात्पर्य- श्रीचरमजिनजीवो मरीचिभवे श्रीऋषभनाथपार्श्वे प्रतिपन्नसंयमः पठितैकादशाङ्गश्रुतो भगवता सह विहरन् ग्रीष्मे उष्णपरिषहजितः स्वमतिविकल्पितं त्रिदण्डछत्रोपानत्कषायवस्त्रादिलिङ्गं परिव्राज्यं प्रतिपद्य पुनर्भगवतैव सह विहरन् कथयाच प्रतिबोध्यान् प्रतिबोध्य भगवत्पार्श्वे प्रेषयन् स्वासामथ्र्यै च संयमे प्रकटयन् प्रभूतं कालं निनाय । अन्यदा भगवति सिद्धे साधुभिः सह तथैव विहरन ग्लानो जातोऽसंयत इति तैर्ने प्रतिचरितः । ततश्च कपिलं भगवडपद्दधानं स्वपरिचय For Private and Personal Use Only प्रकरणम्॥ सटीकं० ।। ९७ ।।
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy