________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassa garsuri Gyanmandir
लुब्धा लोभवन्तः सेवन्ते पापकर्म । आश्रयन्ति कृषिवाणिज्यदेशान्तरयानसमुदतरणशेलारोहणकर्मादानसेवनादिकं दुष्क
मैं । परोपकाराद्यर्थ तादृशं दुष्कर्म कुर्वन्तो भविष्यन्तीत्याशङ्कयाह-व्यापारे उदरभरणार्थे जठरमात्रपूरणार्थे व्यवसाये नो 18| पकाराद्यर्थमिति । इदमुक्तं भवति--एके हि महासचा एवंविधाः सन्ति ये राज्यादिकारणभूतानपि व्यापारांस्त्यजन्ति
भवाद्विभ्यतो । द्वितीयाः पुनहींनसचा उदरमात्रभरणार्थमपि पापव्यापार सेवन्ते धनलवाशया तदपि त्यक्तुं न क्षमन्ते । यतः-जह चयइ चक्कवट्टी पवित्थरं तत्तियं मुहुत्तेण । न चयइ तहा अह-नो दुब्बुद्धी खप्परं दमगो ॥ ३३४ ॥ तस्मात्तेऽधमा इनि गाथार्थः ॥ १२० ॥ अथाऽधमाधमानां स्वरूपं कथयस्तन्निन्दामाह
मूलम्-तइया अहमाण अहमा कारणरहिया अन्नाणगव्वेण ।
जे जंपति उसुत्तं धिही पंडित्तणं ताणं ॥ १२१ ॥ व्याख्या-तृतीया अधमानामधमा एके महासत्वा उक्ताः,अपरे द्वितीया हीनसवा अधमा उक्तास्तदपेक्षया अधमाधमा| स्तृतीयाः सन्तीति शेषः । के ते इत्याह-ये कारणरहिता धनार्जनस्वजनपालनादिकारणं विनेति यावज्जल्पन्ति वदन्ति उत्सूत्रं सूत्रविरुद्ध । केन हेतुना जत्पन्तीत्याह-अज्ञानगर्वेण अज्ञानं कुत्सितमल्प वा ज्ञानं तद्गर्वेणाहकारेण भवति । बधमानां कुत्सितादल्पाद्वा ज्ञानाद्गर्वः । यतः-अन्यैः स्वेच्छारचिता-नर्थविशेषान् श्रमेण विज्ञाय । सकलं वाङ्मयमित्तं इति खादत्यङ्गानि दर्पण ॥३३५॥ क्रीडनकमीश्वराणां,कुर्कुटलावकसमानवाल्लभ्यः । शा
For Private and Personal Use Only