________________
Shri Mahavir Jain Aradhana Kendra
पट्टिशतक॥९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परमतत्वं ततोऽपि उपचारतो मोक्षम् ।। ९४ ।। वर्णयामि नारकान् येषां दुःखानि स्मरन्ताम् । भव्यानां जनयति हरिहर ऋद्धिसमृद्धिरपि उद्घोषम् ।। ९५ ।। श्रीधर्मदासगणिना रचितं उपदेशमालासिद्धान्तम् । सर्वेऽपि श्रमणश्रद्धा मन्यन्ते पठन्ति पाठयन्ति ॥ ९६ ॥ तं चैव केचिदधमाः छलिता अभिमानमोहमुतैः । क्रियया हीलयन्तो हा हा ! दुःखानि न गणयन्ति ॥ ९७ ॥ इतरेषां ठक्कुराणामपि आज्ञाभङ्गेन भवति मरणदु खम् । किं पुनः त्रिलोकप्रभोः जिनेन्द्रदेवाधिदेवस्य || जगद्गुरुजिनस्य वचनं सकलानां जीवानां भवति हितकरणम् । तस्मात् तस्य विराधनया कथं धर्मः कथं तु जीवदया ॥ ९९ ॥ क्रियायाः स्फटाटोपं अधिकं साधयन्ति आगमविहीनम् । मुग्धानां रञ्जनार्थ शुद्धानां हीलनार्थम् ॥ १०० ॥ यः ददाति शुद्धधर्मं स परमात्मा जगति न तु अन्यः । किं कल्पशुमसदृश इतरतरुर्भवति कदापि ॥ १०१ ॥ ये अमुणितगुणदोषौ ते कथं विबुधानां भवन्ति मध्यस्था: । यदि तेऽपि तु मध्यस्थास्तहिं विषामृतयोस्तुल्यत्वम् ॥ १०२ ॥ मूलं जिनेन्द्रदेवः तद्वचनं गुरुजनो महासुजनः । शेषं पापस्थानं परमात्मीयं च वर्जयामि ॥ १०३ ॥ अस्माकं रागरोषं कस्योपरि अत्र नास्ति गुरुविषये । जिनाक्षारता गुरवो ध मर्य शेषान् व्युत्सृजामः ॥ १०४ ॥ नो आत्मीयाः परकीया वा गुरवः कदापि भवन्ति शुद्धानां । जिनवचनरत्नमण्डनमण्डिताः सर्वेऽपि ते सुगुरवः ॥ १०५ ॥ बलि क्रियामहे सज्जनजनस्य सुविशुद्ध पुण्ययुक्तस्य । यस्य लघुसङ्गमेनापि विशुद्धबुद्धिः समुल्लसति ॥ १०६ ॥ अथापि गुरवो गुणिनः शुद्धा दृश्यन्ते तडतडाः केऽपि । प्रभुजिनवल्लभसदृशः पुनरपि जिनवल्लभश्चैष ॥ १०७ ॥ वचनेऽपि सुगुरुजिनवल्लभस्य केषां नोल्लसति सम्यक्त्वम् । अथ कथं दिनमणितेज उलूकानामपि हरति अन्धत्वम् ।। १०८ ।। त्रिभुवनजनं त्रियमाणं दृष्ट्वा पश्यन्ति ये नात्मानम् । विरमन्ति न पापात् धिधिक् धृष्टत्वं तेषाम् ॥ १०९ ॥ शोकेन कन्दित्वा कुट्टयित्वा शिरश्च उर
For Private and Personal Use Only
प्रकरणम् ॥
संस्कृतानुबादः
44
KII